अथर्ववेद - काण्ड 20/ सूक्त 49/ मन्त्र 3
श॒क्रो वाच॒मधृ॑ष्णुहि॒ धाम॑धर्म॒न्वि रा॑जति। विम॑दन्ब॒र्हिरास॑रन् ॥
स्वर सहित पद पाठश॒क्र: । वाच॒म् । अधृ॑ष्णुहि । धाम॑ । धर्म॑न् । वि । रा॑जति ॥ विम॑दन् । ब॒र्हि: । आ॒सर॑न् ॥४९.३॥
स्वर रहित मन्त्र
शक्रो वाचमधृष्णुहि धामधर्मन्वि राजति। विमदन्बर्हिरासरन् ॥
स्वर रहित पद पाठशक्र: । वाचम् । अधृष्णुहि । धाम । धर्मन् । वि । राजति ॥ विमदन् । बर्हि: । आसरन् ॥४९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 49; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - सूचना−पं० सेवकलाल कृष्णदास परिशोधित संहिता में इस मन्त्र का वह पाठ है−श॒क्रं वा॒चाभि ष्टु॑हि॒ धाम॑न्धाम॒न् विरा॑जति। वि॒मद॑न् ब॒र्हिरास॑दन् ॥३॥ [हे मनुष्य !] (वाचा) वाणी से (शक्रम्) शक्तिमान् [परमेश्वर] की (अभि ष्टुहि) सब ओर से बड़ाई कर, वह [परमात्मा] (विमदन्) विशेष रीति से आनन्द करता हुआ (बर्हिः) उत्तम आसन पर (आ सदन्) बैठा हुआ (धामन् धामन्) धाम-धाम [जगह-जगह] में (वि राजति) विराजता है ॥३॥मनुष्य घट-घट वासी परमात्मा का सदा ध्यान रखकर अपनी अवस्था सुधारता रहे ॥३॥ ३−(शक्रः) शक्तिमांस्त्वम् (वाचम्) वेदवाणीम् (अधृष्णुहि) म० २। शक्तिहीनां मा कुरु (धाम) धाम्नि धाम्नि। प्रत्येकस्थाने (धर्मन्) धर्मणि धर्मणि। प्रत्येकधारणीये कर्तव्ये व्यवहारे (वि) विविधम् (राजति) शोभते (विमदन्) विशेषेण हृष्यन् (बर्हिः) उत्तमासनम् (आसरन्) प्राप्नुवन् ॥ ३−(शक्रम्) शक्तिमन्तं परमात्मानम् (वाचा) (अभि ष्टुहि) (धाम) धामन्। धामनि धामनि। प्रत्येकस्थाने (वि) विशेषेण (राजति) शोभते (विमदन्) विशेषेण हृष्यन् (बर्हिः) उत्तमासनम् (आ सदन्) आतिष्ठन् ॥
इस भाष्य को एडिट करें