Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 55/ मन्त्र 2
या इ॑न्द्र॒ भुज॒ आभ॑रः॒ स्वर्वाँ॒ असु॑रेभ्यः। स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥
स्वर सहित पद पाठया: । इ॒न्द्र॒ । भुज॑: । आ । अभ॑र: । स्व॑:ऽवान् । असु॑रेभ्य: ॥ स्तो॒तार॑म् । इत् । म॒घ॒ऽव॒न् । अ॒स्य॒ । व॒र्ध॒य॒ । ये । च॒ । त्वे इति॑ । वृ॒क्तऽब॑र्हिष: ॥५५.२॥
स्वर रहित मन्त्र
या इन्द्र भुज आभरः स्वर्वाँ असुरेभ्यः। स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥
स्वर रहित पद पाठया: । इन्द्र । भुज: । आ । अभर: । स्व:ऽवान् । असुरेभ्य: ॥ स्तोतारम् । इत् । मघऽवन् । अस्य । वर्धय । ये । च । त्वे इति । वृक्तऽबर्हिष: ॥५५.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 55; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(याः) (इन्द्र) हे परमैश्वर्यवन् राजन् (भुजः) भोग्यसामग्रीः (आ अभरः) आहृतवानसि (स्वर्वान्) सुखवांस्त्वम् (असुरेभ्यः) सुरविरोधिभ्यो दुष्टेभ्यः सकाशात् (स्तोतारम्) (इत्) एव (मघवन्) हे धनवन् (अस्य) तादृशस्य त्वदीयस्य स्वकीयस्य (वर्धय) वृद्धिमन्तं कुरु (ये) (च) (त्वे) त्वयि राजनि (वृक्तबर्हिषः) अ० २०।२।१। प्राप्तवृद्धयः ॥
इस भाष्य को एडिट करें