अथर्ववेद - काण्ड 20/ सूक्त 6/ मन्त्र 4
इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तव॒ प्र य॑न्ति सत्पते। क्षयं॑ च॒न्द्रास॒ इन्द॑वः ॥
स्वर सहित पद पाठइन्द्र॑ । सोमा॑: । सु॒ता: । इ॒मे । तव॑ । प्र । य॒न्ति॒ । स॒त्ऽप॒ते॒ ॥ क्षय॑म् । च॒न्द्रास॑: । इन्द॑व: ॥६.४॥
स्वर रहित मन्त्र
इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते। क्षयं चन्द्रास इन्दवः ॥
स्वर रहित पद पाठइन्द्र । सोमा: । सुता: । इमे । तव । प्र । यन्ति । सत्ऽपते ॥ क्षयम् । चन्द्रास: । इन्दव: ॥६.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 6; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(इन्द्रः) (सोमाः) महौषधिरसाः (सुताः) संस्कृताः (इमे) (तव) (प्र) प्रकर्षेण (यन्ति) प्राप्नुवन्ति (सत्पते) सतां सत्पुरुषाणां पालक (क्षयम्) निवासस्थानम् (चन्द्रासः) चदि आह्लादने दीप्तौ च-रक्, असुगागमः। आह्लादकाः (इन्दवः) उन्देरिच्चादेः। उ० १।१२। उन्दी क्लेदने-उण्, उकारस्य इकारः। क्लिन्नाः। सजलाः। रसात्मकाः ॥
इस भाष्य को एडिट करें