Loading...
अथर्ववेद > काण्ड 20 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 6/ मन्त्र 7
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-६

    अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रं॑ सचन्ते॒ अक्षि॑ता। पी॒त्वी सोम॑स्य वावृधे ॥

    स्वर सहित पद पाठ

    अ॒भि । द्यु॒म्नानि॑ । व॒निन॑: । इ॒न्द्र॑म् । स॒च॒न्ते॒ । अक्षि॑ता । पी॒त्वी॒ । सोम॑स्य । व॒वृ॒धे॒ ॥६.७॥


    स्वर रहित मन्त्र

    अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता। पीत्वी सोमस्य वावृधे ॥

    स्वर रहित पद पाठ

    अभि । द्युम्नानि । वनिन: । इन्द्रम् । सचन्ते । अक्षिता । पीत्वी । सोमस्य । ववृधे ॥६.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 6; मन्त्र » 7

    टिप्पणीः - ७−(अभि) अभिलक्ष्य (द्युम्नानि) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। द्यु दीप्तौ-नप्रत्ययः, तकारस्य मकारः। द्युम्नं धननाम-निघ० २।१०। द्युम्नं द्योततेर्यशो वान्नं वा-निरु० ।। धनानि। यशांसि (वनिनः) वन संभक्तौ-अच्। अत इनिठनौ। पा० ।–२।११। वन-इनि। संभजमानाः। सेवकाः (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (सचन्ते) षच समवाये। संगच्छन्ते (अक्षिता) अक्षीणानि (पीत्वी) स्वात्व्यादयश्च। पा० ७।१।४९। इति त्वीभावः। पीत्वा। पानं कृत्वा (सोमस्य) अन्नादिमहौषधिरसस्य (वावृधे) प्रवृद्धो बभूव ॥

    इस भाष्य को एडिट करें
    Top