अथर्ववेद - काण्ड 20/ सूक्त 6/ मन्त्र 5
द॑धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिन्द्र॒ वरे॑ण्यम्। तव॑ द्यु॒क्षास॒ इन्द॑वः ॥
स्वर सहित पद पाठद॒धि॒ष्व । ज॒ठरे॑ । सु॒तम् । सोम॑म् । इ॒न्द्र॒ । वरे॑ण्यम् । तव॑ । द्यु॒क्षास॑: । इन्द॑व: ॥६.५॥
स्वर रहित मन्त्र
दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम्। तव द्युक्षास इन्दवः ॥
स्वर रहित पद पाठदधिष्व । जठरे । सुतम् । सोमम् । इन्द्र । वरेण्यम् । तव । द्युक्षास: । इन्दव: ॥६.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 6; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - −(दधिष्व) दधातेर्लोट्, सांहितिको दीर्घः। धत्स्व। धरस्व (जठरे) उदरे (सुतम्) संस्कृतम् (सोमम्) अन्नादिमहौषधिरसम् (इन्द्रः) (वरेण्यम्) अ० ७।१४।४। वृञ् वरणे-एण्य। स्वीकरणीयम् (तव) तवैव (द्युक्षासः) दिव्+क्षि निवासगत्योः-डप्रत्ययः, असुगागमः। दिवि व्यवहारे निवासशीलाः (इन्दवः) म० ४। सजलाः। रसात्मकाः पदार्थाः ॥
इस भाष्य को एडिट करें