अथर्ववेद - काण्ड 20/ सूक्त 60/ मन्त्र 2
ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तृभिः॑। अधा॑ चिदिन्द्र मे॒ सचा॑ ॥
स्वर सहित पद पाठए॒व । रा॒ति: । तु॒वि॒ऽम॒घ॒ । विश्वे॑भि: । धा॒यि॒ । धा॒तृऽभि॑: ॥ अध॑ । चि॒त् । इ॒न्द्र॒ । मे॒ । सचा॑ ॥६०.२॥
स्वर रहित मन्त्र
एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः। अधा चिदिन्द्र मे सचा ॥
स्वर रहित पद पाठएव । राति: । तुविऽमघ । विश्वेभि: । धायि । धातृऽभि: ॥ अध । चित् । इन्द्र । मे । सचा ॥६०.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 60; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(एव) निश्चयेन (रातिः) दानम् (तुविमघ) हे बहुधनवन् (विश्वेभिः) सर्वैः (धायि) अधायि। धार्यते (धातृभिः) कर्मधारकैः (अध) अनन्तरम् (चित्) एव (इन्द्र) हे परमैश्वर्यवन् पुरुष (मे) मह्यम् (सचा) समवायेन वर्तस्वेति शेषः ॥
इस भाष्य को एडिट करें