Loading...
अथर्ववेद > काण्ड 20 > सूक्त 61

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 61/ मन्त्र 1
    सूक्त - गोषूक्तिः, अश्वसूक्तिः देवता - इन्द्रः छन्दः - उष्णिक् सूक्तम् - सूक्त-६१

    तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम्। उ॑ लोककृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म् ॥

    स्वर सहित पद पाठ

    तम् । ते॒ । मद॑म् । मणी॒म॒सि॒ । वृष॑णम् । पृ॒तऽसु । स॒स॒हिम् ॥ ऊं॒ इति॑ । लो॒क॒ऽकृ॒त्नुम् । अ॒द्रि॒ऽव॒: । ह॒रि॒ऽश्रिय॑म् ॥६१.१॥


    स्वर रहित मन्त्र

    तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम्। उ लोककृत्नुमद्रिवो हरिश्रियम् ॥

    स्वर रहित पद पाठ

    तम् । ते । मदम् । मणीमसि । वृषणम् । पृतऽसु । ससहिम् ॥ ऊं इति । लोकऽकृत्नुम् । अद्रिऽव: । हरिऽश्रियम् ॥६१.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 61; मन्त्र » 1

    टिप्पणीः - मन्त्र १-३ ऋग्वेद में है-८।।४-६, सामवेद-उ० २।२। तृच १८; मन्त्र १- पू० ४।१०।३ ॥ १−(तम्) प्रसिद्धम् (ते) तव (मदम्) आनन्दम् (गृणीमसि) मस इकारागमः। स्तुमः (वृषणम्) महाबलवन्तम् (पृत्सु) संग्रामेषु (ससहिम्) अ० ३।१८।। अभिभवितारम्। विजयितारम् (उ) च (लोककृत्नुम्) कृहनिभ्यां क्त्नुः। उ० ३।३०। करोतेः क्त्नु। लोकानां कर्तारम् (अद्रिवः) हे मेघधारिन् (हरिश्रियम्) हरिषु मनुष्येषु श्रीः श्रयणीया सेव्या सम्पत्तिः शोभा वा यस्मात् तम् ॥

    इस भाष्य को एडिट करें
    Top