Loading...
अथर्ववेद > काण्ड 20 > सूक्त 61

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 61/ मन्त्र 5
    सूक्त - गोषूक्तिः, अश्वसूक्तिः देवता - इन्द्रः छन्दः - उष्णिक् सूक्तम् - सूक्त-६१

    यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी। गि॒रीँरज्राँ॑ अ॒पः स्वर्वृषत्व॒ना ॥

    स्वर सहित पद पाठ

    यस्य॑ । द्वि॒ऽबर्ह॑स: । बृ॒हत् । सह॑: । दा॒धार॑ । रोद॑सी॒ इति॑ । गि॒रीन् । अज्रा॑न् । अ॒प: । स्व॑: । वृ॒ष॒ऽत्व॒ना ॥६१.५॥


    स्वर रहित मन्त्र

    यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी। गिरीँरज्राँ अपः स्वर्वृषत्वना ॥

    स्वर रहित पद पाठ

    यस्य । द्विऽबर्हस: । बृहत् । सह: । दाधार । रोदसी इति । गिरीन् । अज्रान् । अप: । स्व: । वृषऽत्वना ॥६१.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 61; मन्त्र » 5

    टिप्पणीः - −(यस्य) परमात्मनः (द्विबर्हसः) गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च। उ० ४।२२७। द्वि+बर्ह प्राधान्ये-असि। द्वयोर्विद्यापुरुषार्थयोः परिवृद्धस्य (बृहत्) महत् (सहः) सामर्थ्यम् (दाधार) धारितवान् (रोदसी) द्यावापृथिव्यौ (गिरीन्) मेघान् (अज्रान्) स्फायितञ्चिवञ्चिशकि०। उ० २।१३। अज गतिक्षेपणयोः-रक्, वीभावाभावः। क्षिप्रान्-निघ० २।१। शीघ्रगमनान् (अपः) जलानि समुद्रादीनि (स्वः) प्रकाशम् (वृषत्वना) वृषत्वेन। वीर्येण ॥॥

    इस भाष्य को एडिट करें
    Top