Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 8/ मन्त्र 1
ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः। आ॒विः सूर्यं॑ कृणु॒हि पी॑पि॒हीषो॑ ज॒हि शत्रूँ॑र॒भि गा इ॑न्द्र तृन्धि ॥
स्वर सहित पद पाठए॒व । पा॒हि॒ । प्र॒त्नऽथा॑ । मन्द॑तु । त्वा॒ । श्रुधि॑ । ब्रह्म॑ । व॒वृ॒धस्व॒ । उ॒त । गी॒ऽभि: ॥ आ॒वि: । सूर्य॑म् । कृ॒णु॒हि ।पी॒पि॒हि । इष॑: । ज॒हि । शत्रू॑न् । अ॒भि । गा: । इ॒न्द्र॒ । तृ॒न्द्धि॒ ॥८.१॥
स्वर रहित मन्त्र
एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः। आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूँरभि गा इन्द्र तृन्धि ॥
स्वर रहित पद पाठएव । पाहि । प्रत्नऽथा । मन्दतु । त्वा । श्रुधि । ब्रह्म । ववृधस्व । उत । गीऽभि: ॥ आवि: । सूर्यम् । कृणुहि ।पीपिहि । इष: । जहि । शत्रून् । अभि । गा: । इन्द्र । तृन्द्धि ॥८.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 8; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र ऋग्वेद में है-६।१७।३ ॥ १−(एव) अवधारणे (पाहि) रक्ष, अस्मान् (प्रत्नथा) प्रत्नपूर्वविश्वेमात्थाल् छन्दसि। पा० ।३।१११। इवार्थे थाल्प्रत्ययः। पूर्वं यथा (मन्दतु) आमोदयतु। हर्षयतु (त्वा) त्वाम् (श्रुधि) शृणु (ब्रह्म) परमेश्वरो वेदो वा (वावृधस्व) शपः श्लुः। वर्धस्व (उत) अपि च (गीर्भिः) वेदवाणीभिः (आविः) प्राकट्ये (सूर्यम्) सूर्यवद् विद्याप्रकाशम् (कृणुहि) कुरु (पीपिहि) पि गतौ-शपः श्लुः। तुजादित्वादभ्यासस्य दीर्घश्च। प्राप्नुहि (इषः) अन्नानि (जहि) नाशय (शत्रून्) (अभि) सर्वथा (गाः) शत्रूणां वाचः (इन्द्रः) हे परमैश्वर्यवन् पुरुष (तृन्धि) उतृदिर् हिंसानादरयोः। हिन्धि। नाशय ॥
इस भाष्य को एडिट करें