Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 8/ मन्त्र 3
आपू॑र्णो अस्य क॒लशः॒ स्वाहा॒ सेक्ते॑व॒ कोशं॑ सिषिचे॒ पिब॑ध्यै। समु॑ प्रि॒या आव॑वृत्र॒न्मदा॑य प्रदक्षि॒णिद॒भि सोमा॑स॒ इन्द्र॑म् ॥
स्वर सहित पद पाठआऽपू॑र्ण: । अ॒स्य॒ । क॒लश॑: । स्वाहा॑ । सेक्ता॑ऽइव । कोश॑म् । सि॒स॒चे॒ । पिब॑ध्यै ॥ सम् । ऊं॒ इति॑ । प्रि॒या । आ । अ॒वृ॒त्र॒न् । मदा॑य । प्र॒ऽद॒क्षि॒णित् । अ॒भि । सोमा॑स: । इन्द्र॑म् ॥८.३॥
स्वर रहित मन्त्र
आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिषिचे पिबध्यै। समु प्रिया आववृत्रन्मदाय प्रदक्षिणिदभि सोमास इन्द्रम् ॥
स्वर रहित पद पाठआऽपूर्ण: । अस्य । कलश: । स्वाहा । सेक्ताऽइव । कोशम् । सिसचे । पिबध्यै ॥ सम् । ऊं इति । प्रिया । आ । अवृत्रन् । मदाय । प्रऽदक्षिणित् । अभि । सोमास: । इन्द्रम् ॥८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 8; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र ऋग्वेद में है ३।३२।१ ॥ ३−(आपूर्णः) समन्तात् पूरितः (अस्य) इन्द्रस्य (कलशः) कुम्भः (स्वाहा) सुवाण्या (सेक्ता) पूरकः (इव) यथा (कोशम्) पात्रम् (सिसिचे) षिच क्षरणे-लिट्। अहं सिक्तवानस्मि (पिबध्यै) तुमर्थे सेसेनसे०। पा० ३।४।९। पा पाने-शध्यैन्, शित्त्वात् पिबादेशः, नित्त्वादाद्युदात्तः। पानं कर्तुम् (सम्) सम्यक् (उ) अवधारणे (प्रियाः) कमनीयाः (आ) समन्तात् (अववृत्रन्) वृतु वर्तने-लङ्, परस्मैपदम्, शपः श्लुः, रुडागमः। वर्तमाना अभवन् (मदाय) हर्षाय (प्रदक्षिणित्) प्रदक्षिण+इण् गतौ-क्विप्। शकन्ध्वादित्वात् पररूपम्। सुपां सुलुक्०। पा० ७।१।३९। इति जसः सुः। प्रदक्षिणेतः। दक्षिणपार्श्वं गन्तारः (अभि) प्रति (सोमासः) महौषधिरसाः (इन्द्रम्) परमैश्वर्यन्तं प्रधानम् ॥
इस भाष्य को एडिट करें