Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 81/ मन्त्र 2
आ प॑प्राथ महि॒ना वृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा। अ॒स्माँ अव॑ मघव॒न्गोम॑ति व्र॒जे वज्रिं॑ चि॒त्राभि॑रू॒तिभिः॑ ॥
स्वर सहित पद पाठआ । प॒प्रा॒थ॒ । म॒हि॒ना । वृष्ण्या॑ । वृ॒ष॒न् । विश्वा॑ । श॒वि॒ष्ठ॒ । शव॑सा ॥ अ॒स्मान् । अ॒व॒ । म॒घ॒ऽव॒न् । गोऽम॑ति । व्र॒जे । वज्रि॑न् । चि॒त्राभि॑: । ऊ॒त्ऽभि॑: ॥८१.२॥
स्वर रहित मन्त्र
आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा। अस्माँ अव मघवन्गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥
स्वर रहित पद पाठआ । पप्राथ । महिना । वृष्ण्या । वृषन् । विश्वा । शविष्ठ । शवसा ॥ अस्मान् । अव । मघऽवन् । गोऽमति । व्रजे । वज्रिन् । चित्राभि: । ऊत्ऽभि: ॥८१.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 81; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(आ) समन्तात् (पप्राथ) प्रा-लिट्। पूरितवानसि (महिना) महता (वृष्ण्या) अ० ४।४।४। वृष्णे बलवते हितानि बलानि (वृषन्) हे शूर (विश्वा) सर्वाणि (शविष्ठ) बलिष्ठ (शवसा) बलेन (अस्मान्) (अव) रक्ष (मघवन्) धनवन् (गोमति) प्रशस्तविद्यायुक्ते (व्रजे) मार्गे (वज्रिन्) दण्डधारिन् शासक (चित्राभिः) अद्भुताभिः (ऊतिभिः) रक्षाभिः ॥
इस भाष्य को एडिट करें