Loading...
अथर्ववेद > काण्ड 20 > सूक्त 82

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 82/ मन्त्र 1
    सूक्त - वसिष्ठः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-८२

    यदि॑न्द्र॒ याव॑त॒स्त्वमे॒ताव॑द॒हमीशी॑य। स्तो॒तार॒मिद्दि॑धिषेय रदावसो॒ न पा॑प॒त्वाय॑ रासीय ॥

    स्वर सहित पद पाठ

    यत् । इ॒न्द्र॒ । याव॑त: । त्वम् । ए॒ताव॑त् । अ॒हम् । ईशी॑य ॥ स्तो॒तार॑म् । इत् । दि॒धि॒षे॒य॒ । र॒द॒व॒सो॒ इति॑ रदऽवसो । न । पा॒प॒ऽत्वाय॑ । रा॒सी॒य॒ ॥८२.१‍॥


    स्वर रहित मन्त्र

    यदिन्द्र यावतस्त्वमेतावदहमीशीय। स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय ॥

    स्वर रहित पद पाठ

    यत् । इन्द्र । यावत: । त्वम् । एतावत् । अहम् । ईशीय ॥ स्तोतारम् । इत् । दिधिषेय । रदवसो इति रदऽवसो । न । पापऽत्वाय । रासीय ॥८२.१‍॥

    अथर्ववेद - काण्ड » 20; सूक्त » 82; मन्त्र » 1

    टिप्पणीः - दोनों मन्त्र ऋग्वेद में हैं-७।३२।१८, १९। साम० उ० ९”।२।९, मन्त्र १ साम०-पू० ४।२।८ ॥ १−(यत्) यावता धनेन (इन्द्र) परमैश्वर्यवन् राजन् (यावतः) यत्परिमाणस्य धनस्य (त्वम्) ईशिषे इति शेषः, तस्मात् इति च (एतावत्) षष्ठ्या लुक्। एतावतो धनस्य (अहम्) (ईशीय) ईश्वरः स्वामी भवेयम् (स्तोतारम्) गुणव्याख्यातारं विद्वांसम् (इत्) अवश्यम् (दिधिषेय) धि धारणे-सन्, विधिलिङ् आत्मनेपदं छान्दसम्। धर्तुमिच्छेयम्। धरेयम् (रदावसो) रद विलेखने-अच्। रदति उत्खनति वसूनि धनानि यस्तत्-सम्बुद्धौ (न) निषेधे (पापत्वाय) पापस्य भावाय (रासीय) दद्याम् ॥

    इस भाष्य को एडिट करें
    Top