Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 82/ मन्त्र 2
शिक्षे॑य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे॑। न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ॥
स्वर सहित पद पाठशिक्षे॑यम् । इत् । म॒ह॒ऽय॒ते । दि॒वेऽदि॑वे । रा॒य: । आ । कु॒ह॒चि॒त्ऽविदे॑ ॥ न॒हि । त्वत् । अ॒न्यत् । म॒घ॒ऽव॒न् । न॒: । आप्य॑म् । वस्य॑: । अस्ति॑ । पि॒ता । च॒न ॥८२.२॥
स्वर रहित मन्त्र
शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे। नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन ॥
स्वर रहित पद पाठशिक्षेयम् । इत् । महऽयते । दिवेऽदिवे । राय: । आ । कुहचित्ऽविदे ॥ नहि । त्वत् । अन्यत् । मघऽवन् । न: । आप्यम् । वस्य: । अस्ति । पिता । चन ॥८२.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 82; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(शिक्षेयम्) शिक्षतिर्दानकर्मा-निघ० ३।२०। दद्याम् (इत्) अवश्यम् (महयते) पूजयते। सत्कुर्वते (दिवेदिवे) प्रतिदिनम् (रायः) धनानि (आ) समन्तात् (कुहचिद्विदे) विद सत्तायाम्-क्विप्। क्वापि विद्यमानाय जनाय (नहि) (त्वत्) त्वत्तः (अन्यत्) भिन्नं वस्तु (मघवन्) धनवन् (नः) अस्माकम् (आप्यम्) प्रापणीयम् (वस्यः) वसीयः। वसुतरम्। श्रेष्ठतरम् (अस्ति) (पिता) पालयिता (चन) अपि ॥
इस भाष्य को एडिट करें