Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 95/ मन्त्र 2
प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत। अ॒भीके॑ चिदु लोक॒कृत्सं॒गे स॒मत्सु॑ वृत्र॒हास्माकं॑ बोधि चोदि॒ता नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
स्वर सहित पद पाठप्रो इति॑ । सु । अ॒स्मै॒ । पु॒र॒:ऽर॒थम् । इन्द्रा॑य । शू॒षम् । अ॒र्च॒त॒ ॥ अ॒भीके॑ । चि॒त् । ऊं॒ इति॑ । लो॒क॒ऽकृत् । स॒म्ऽगे । स॒मत्ऽसु॑ । वृ॒त्र॒ऽहा । अ॒स्माक॑म् । बो॒धि॒ । चो॒दि॒ता । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒का: । अधि॑ । धन्व॑ऽसु ॥९५.२॥
स्वर रहित मन्त्र
प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत। अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
स्वर रहित पद पाठप्रो इति । सु । अस्मै । पुर:ऽरथम् । इन्द्राय । शूषम् । अर्चत ॥ अभीके । चित् । ऊं इति । लोकऽकृत् । सम्ऽगे । समत्ऽसु । वृत्रऽहा । अस्माकम् । बोधि । चोदिता । नभन्ताम् । अन्यकेषाम् । ज्याका: । अधि । धन्वऽसु ॥९५.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 95; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - मन्त्र २-४ ऋग्वेद में हैं-१०।१३३।१-३। और सामवेद-उ० ९।१। तृच १४ ॥ २−(प्रो) प्र उ इति निपातसमुदायः। ओत्। पा० १।१।१। इति प्रगृह्यम्। प्रकर्षेणैव। अवश्यमेव (सु) सुष्ठु (अस्मै) (पुरोरथम्) अग्रे रथयुक्तम् (इन्द्राय) महाप्रतापिने राज्ञे (शूषम्) अ० २०।७१।१६। शत्रुशोषकं बलम् (अर्चत) सत्कुरुत (अभीके) अलीकादयश्च। उ० ४।२। अभि+इण् गतौ-कीकन्। धातोर्लोपः। आसन्ने-निरु० ३।२०। (चित्) एव (उ) अवधारणे (लोककृत्) स्थानस्य कर्ता (संगे) संगमे (समत्सु) परस्परादनस्थानेषु संग्रामेषु (वृत्रहा) शत्रुनाशकः (अस्माकम्) (बोधि) अबोधि। ज्ञायते (चोदिता) प्रेरकः। उत्साहवर्धकः (नभन्ताम्) नभतेर्वधकर्मा-निघ० २।१९। हिंस्यन्ताम्। नश्यन्तु (अन्यकेषाम्) अव्ययसर्वनाम्नामकच् प्राक् टेः। पा० ।३।७१। अन्य-अकच्। कुत्सितानामन्येषां शत्रूणाम् (ज्याकाः) कुत्सिते। पा० ।३।७४। ज्या-क प्रत्ययः। कुत्सितो निर्बला ज्याः (अधि) उपरि (धन्वसु) धनुःषु ॥
इस भाष्य को एडिट करें