Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 95/ मन्त्र 4
वि षु विश्वा॒ अरा॑तयो॒ऽर्यो न॑शन्त नो॒ धियः॑। अस्ता॑सि॒ शत्र॑वे व॒धं यो न॑ इन्द्र॒ जिघां॑सति॒ या ते॑ रा॒तिर्द॒दिर्वसु॑। नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
स्वर सहित पद पाठवि । सु । विश्वा॑: । अरा॑तय: । अ॒र्य: । न॒श॒न्त॒ । न॒: । धिय॑: ॥ अस्ता॑ । अ॒सि॒ । शत्र॑वे । व॒धम् । य: । न॒: । इ॒न्द्र॒ । जिघां॑सति । या । ते॒ । रा॒ति: । द॒दि: । वसु॑ । नम॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒का: । अधि॑ । धन्व॑ऽसु ॥९५.४॥
स्वर रहित मन्त्र
वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः। अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु। नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
स्वर रहित पद पाठवि । सु । विश्वा: । अरातय: । अर्य: । नशन्त । न: । धिय: ॥ अस्ता । असि । शत्रवे । वधम् । य: । न: । इन्द्र । जिघांसति । या । ते । राति: । ददि: । वसु । नमन्ताम् । अन्यकेषाम् । ज्याका: । अधि । धन्वऽसु ॥९५.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 95; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(वि) विविधम् (सु) सर्वथा (विश्वाः) सर्वाः (अरातयः) अदात्र्यः प्रजाः (अर्यः) अरेः। शत्रोः (नशन्त) नश्यन्तु (नः) अस्माकम् (धियः) बुद्धयः (अस्ता) क्षेप्ता (असि) (शत्रवे) (वधम्) आयुधम् (यः) शत्रुः (नः) अस्मान् (इन्द्रः) महाप्रतापिन् राजन् (जिघांसति) हन्तुमिच्छति (या) (ते) तव (रातिः) दानशक्तिः (ददिः) ददातेः-किप्रत्ययः। न लोकाव्ययनिष्ठाखलर्थतृनाम्। पा० २।२।६९। इति वसुशब्दात् षष्ठ्यभावः। दात्री (वसु) धनम्। सिद्धमन्यत्-म० २ ॥
इस भाष्य को एडिट करें