Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 1
    सूक्त - पूरणः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९६

    ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मु॑ञ्च। इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रम॒न्तुभ्य॑मि॒मे सु॒तासः॑ ॥

    स्वर सहित पद पाठ

    ती॒व्रस्य॑ । ‍अ॒भिऽव॑यस: । अ॒स्य । पा॒हि॒ । स॒र्व॒ऽर॒था । वि । हरी॒ इति॑ । इ॒ह । मु॒ञ्च॒ ॥ इन्द्र॑ । मा । त्वा॒ । यज॑मानास: । अ॒न्ये । नि । रि॒र॒म॒न्‌ । तुभ्य॑म् । इ॒मे । सु॒तास॑: ॥९६.१॥


    स्वर रहित मन्त्र

    तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च। इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन्तुभ्यमिमे सुतासः ॥

    स्वर रहित पद पाठ

    तीव्रस्य । ‍अभिऽवयस: । अस्य । पाहि । सर्वऽरथा । वि । हरी इति । इह । मुञ्च ॥ इन्द्र । मा । त्वा । यजमानास: । अन्ये । नि । रिरमन्‌ । तुभ्यम् । इमे । सुतास: ॥९६.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 1

    टिप्पणीः - मन्त्र १- ऋग्वेद में है-१०।१६०।१- ॥ १−(तीव्रस्य) तीक्ष्णस्य। क्षिप्रबलकरस्य (अभिवयसः) वयोऽन्नम्-निघ० २।७। अभिगतस्य प्राप्तस्यान्नास्य (अस्य) समीपस्थस्य (पाहि) रक्षां कुरु (सर्वरथा) सर्वरथयोग्यौ (वि मुञ्च) विसृज (हरी) अश्वौ (इह) अत्र (इन्द्र) परमैश्वर्यवन् राजन् (मा) निषेधे (त्वा) त्वाम् (यजमानासः) यजमान+असु क्षेपणे-क्विप्। यजमानानां क्षेप्तारः। यद्वा। सुपां सुपो भवन्ति। वा० पा० ७।१।३९। पञ्चम्यर्थे प्रथमा, असुक् च। यजमानेभ्यः सकाशात् पृथग्भूताः (अन्ये) अपरे। विरोधिनः (नि) नितराम् (रीरमन्) रमु उपरमे-णिचि लुङ्। अडभावो माङ्योगे। उपरमयन्तु। निवर्तयन्तु (तुभ्यम्) त्वदर्थम् (इमे) लभ्यमानाः (सुतासः) संस्कृतास्तत्त्वरसाः ॥

    इस भाष्य को एडिट करें
    Top