अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 2
तुभ्यं॑ सु॒तास्तुभ्य॑मु॒ सोत्वा॑स॒स्त्वां गिरः॒ श्वात्र्या॒ आ ह्व॑यन्ति। इन्द्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ इ॒ह पा॑हि॒ सोम॑म् ॥
स्वर सहित पद पाठतुभ्य॑म् । सु॒ता: । तुभ्य॑म् । ऊं॒ इति॑ । सोत्वा॑स: । त्वाम् । गिर॑: । श्वात्र्या॑: । आ । ह्व॒य॒न्ति॒ ॥ इन्द्र॑ । इ॒दम् । अ॒द्य । सव॑नम् । जु॒षा॒ण: । विश्व॑स्य । वि॒द्वान् । इ॒ह । पा॒हि॒ । सोम॑म् ॥९६.२॥
स्वर रहित मन्त्र
तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयन्ति। इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वाँ इह पाहि सोमम् ॥
स्वर रहित पद पाठतुभ्यम् । सुता: । तुभ्यम् । ऊं इति । सोत्वास: । त्वाम् । गिर: । श्वात्र्या: । आ । ह्वयन्ति ॥ इन्द्र । इदम् । अद्य । सवनम् । जुषाण: । विश्वस्य । विद्वान् । इह । पाहि । सोमम् ॥९६.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(तुभ्यम्) त्वदर्थम् (सुताः) संस्कृतास्तत्त्वरसाः (तुभ्यम्) (उ) च (सोत्वासः) कृत्यार्थे तवैकेन्केन्यत्वनः। पा० ३।४।१४। सुनोतेः-त्वन् सोतव्याः। संस्कर्तव्याः (त्वाम्) (गिरः) वाण्यः (श्वात्र्याः) श्वात्रतिर्गतिकर्मा-निघ० २।१४। अच् प्रत्ययः, ङीप्। गतिशीलायाः प्रजायाः (आ ह्वयन्ति) आक्रोशन्ति (इन्द्र) परमैश्वर्यवन् राजन् (इदम्) (अद्य) (सवनम्) ऐश्वर्यकर्म (जुषाणः) सेवमानः (विश्वस्य) सर्वस्य (विद्वान्) ज्ञाता (इह) अत्र (पाहि) रक्ष (सोमम्) उत्पन्नं संसारम् ॥
इस भाष्य को एडिट करें