अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 11
सूक्त - रक्षोहाः
देवता - गर्भसंस्रावप्रायश्चित्तम्
छन्दः - अनुष्टुप्
सूक्तम् - सूक्त-९६
ब्रह्म॑णा॒ग्निः सं॑विदा॒नो र॑क्षो॒हा बा॑धतामि॒तः। अमी॑वा॒ यस्ते॒ गर्भं॑ दु॒र्णामा॒ योनि॑मा॒शये॑ ॥
स्वर सहित पद पाठब्रह्म॑णा । अ॒ग्नि: । स॒म्ऽवि॒दा॒न: । र॒क्ष॒:ऽहा । बा॒ध॒ता॒म् । इ॒त: ॥ अमी॑वा । य: । ते॒ । गर्भ॑म् । दु॒:ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ॥९६.११॥
स्वर रहित मन्त्र
ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः। अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥
स्वर रहित पद पाठब्रह्मणा । अग्नि: । सम्ऽविदान: । रक्ष:ऽहा । बाधताम् । इत: ॥ अमीवा । य: । ते । गर्भम् । दु:ऽनामा । योनिम् । आऽशये ॥९६.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - मन्त्र ११-१६ ऋग्वेद में है-१०।१६२।१-६ ॥ इन मन्त्रों से मिलाओ-अ० का०८। सू० ६ ॥ ११−(ब्रह्मणा) विदुषा वैद्येन सह (अग्निः) अग्निसमानं रोगस्य भस्मीकरमौषधम् (संविदानः) ऐकमत्यं प्राप्तः (रक्षोहा) रक्षसां रोगाणां नाशकः (बाधताम्) हिनस्तु तं रोगम् (इतः) अस्मात् स्थानात् (अमीवा) पीडा (यः) (ते) तव (गर्भम्) गर्भाशयम् (दुर्णामा) अ० ८।६।१। दुर्णामा क्रिमिर्भवति पापनामा-निरु० ६।१२। अर्शआदिरोगजन्तुः (योनिम्) गुप्तोत्पत्तिमार्गम् (आशये) तलोपः। आशेते। प्राप्नोति ॥
इस भाष्य को एडिट करें