अथर्ववेद - काण्ड 3/ सूक्त 13/ मन्त्र 5
सूक्त - भृगुः
देवता - वरुणः, सिन्धुः, आपः
छन्दः - विराड्जगती
सूक्तम् - आपो देवता सूक्त
आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसन्न॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः। ती॒व्रो रसो॑ मधु॒पृचा॑मरंग॒म आ मा॑ प्रा॒णेन॑ स॒ह वर्च॑सा गमेत् ॥
स्वर सहित पद पाठआप॑: । भ॒द्रा: । घृ॒तम् । इत् । आप॑: । आ॒स॒न् । अ॒ग्नीषोमौ॑ । बि॒भ्र॒ती॒ । आप॑: । इत् । ता: । ती॒व्र: । रस॑: । म॒धु॒ऽपृचा॑म् । अ॒र॒म्ऽग॒म: । आ । मा॒ । प्रा॒णेन॑ । स॒ह । वर्च॑सा । ग॒मे॒त् ॥१३.५॥
स्वर रहित मन्त्र
आपो भद्रा घृतमिदाप आसन्नग्नीषोमौ बिभ्रत्याप इत्ताः। तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसा गमेत् ॥
स्वर रहित पद पाठआप: । भद्रा: । घृतम् । इत् । आप: । आसन् । अग्नीषोमौ । बिभ्रती । आप: । इत् । ता: । तीव्र: । रस: । मधुऽपृचाम् । अरम्ऽगम: । आ । मा । प्राणेन । सह । वर्चसा । गमेत् ॥१३.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 13; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(आपः)। प्रापणीयं जलम्। (भद्राः)। भदि कल्याणकारणे-रक्। मङ्गलप्रदाः। (घृतम्)। घृतवत् सारवस्तु। (इत्)। एव। (आसन्)। अभवन्। (अग्नीषोमौ)। ईदग्नेः सोमवरुणयोः। पा० ६।३।२७। इति ईत्वम्। अग्नेः स्तुत्स्तोमसोमाः। पा० ८।३।८२। इति षत्वम्। अग्निं च सोमं चन्द्रं च। (बिभ्रति)। धारयन्ति। (तीव्रः)। ऋजेन्द्राग्र०। उ० २।२८। इति बाहुलकात्। तिज तीक्ष्णीकरणे-रन्, जस्य वो दीर्घत्वं च। तीक्ष्णम्। (रसः)। सारः। मधुपृचाम्। पृची संपर्के-क्विप्। मधुना रसेन संपृक्तानाम्। (अरंगमः)। अलंगमः। पर्याप्तगमनः। अक्षीणाः। (प्राणेन)। जीवनेन। (मा)। माम्। (वर्चसा)। तेजसा। बलेन। (आ गमेत्)। आगमयेत्, प्रापयेत् ॥
इस भाष्य को एडिट करें