Loading...
अथर्ववेद > काण्ड 3 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 14/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - गौः छन्दः - अनुष्टुप् सूक्तम् - गोष्ठ सूक्त

    सं वो॑ गो॒ष्ठेन॑ सु॒षदा॒ सं र॒य्या सं सुभू॑त्या। अह॑र्जातस्य॒ यन्नाम॒ तेना॑ वः॒ सं सृ॑जामसि ॥

    स्वर सहित पद पाठ

    सम् । व॒: । गो॒ऽस्थेन॑ । सु॒ऽसदा॑ । सम् । र॒य्या । सम् । सुऽभू॑त्या । अह॑:ऽजातस्य । यत् । नाम॑ । तेन॑ । व॒: । सम् । सृ॒जा॒म॒सि॒॥१४.१॥


    स्वर रहित मन्त्र

    सं वो गोष्ठेन सुषदा सं रय्या सं सुभूत्या। अहर्जातस्य यन्नाम तेना वः सं सृजामसि ॥

    स्वर रहित पद पाठ

    सम् । व: । गोऽस्थेन । सुऽसदा । सम् । रय्या । सम् । सुऽभूत्या । अह:ऽजातस्य । यत् । नाम । तेन । व: । सम् । सृजामसि॥१४.१॥

    अथर्ववेद - काण्ड » 3; सूक्त » 14; मन्त्र » 1

    टिप्पणीः - १−(सम्)। सृजामसि इति व्यवहितक्रियापदेन सर्वत्र संबन्धः। (वः)। युष्मान्। (गोष्ठेन)। गोशालया। (सुषदा)। षद्लृ गतौ-क्विप्। सुखेन सीदन्ति यत्रेति सुषत्। सुखसदनयोग्येन। (रय्या)। धनेन। (सुभूत्या)। भू सत्तायां प्राप्तौ च-क्तिन्। बहुसम्पत्त्या। (अहर्जातस्य)। नञि जहातेः। उ० १।१५८। इति नञ्+ओहाक् त्यागे, कनिन्, आतो लोपः। न जहाति न त्यजति परिवर्त्तमानत्वात्, इत्यहः, दिनम्। जनी जन्मनि-क्त। अहन्यहनि जातस्य उत्पन्नस्य प्राणिनः। (संसृजामसि)। संसृजामः संयोजयामः। अन्यत् सुगमम् ॥

    इस भाष्य को एडिट करें
    Top