अथर्ववेद - काण्ड 3/ सूक्त 14/ मन्त्र 6
मया॑ गावो॒ गोप॑तिना सचध्वम॒यं वो॑ गो॒ष्ठ इ॒ह पो॑षयि॒ष्णुः। रा॒यस्पोषे॑ण बहु॒ला भव॑न्तीर्जी॒वा जीव॑न्ती॒रुप॑ वः सदेम ॥
स्वर सहित पद पाठमया॑ । गा॒व॒: । गोऽप॑तिना । स॒च॒ध्व॒म् । अ॒यम् । व॒: । गो॒ऽस्थ: । इ॒ह । पो॒ष॒यि॒ष्णु: । रा॒य: । पोषे॑ण । ब॒हु॒ला: । भव॑न्ती: । जी॒वा: । जीव॑न्ती: । उप॑ । व॒: । स॒दे॒म॒ ॥१४.६॥
स्वर रहित मन्त्र
मया गावो गोपतिना सचध्वमयं वो गोष्ठ इह पोषयिष्णुः। रायस्पोषेण बहुला भवन्तीर्जीवा जीवन्तीरुप वः सदेम ॥
स्वर रहित पद पाठमया । गाव: । गोऽपतिना । सचध्वम् । अयम् । व: । गोऽस्थ: । इह । पोषयिष्णु: । राय: । पोषेण । बहुला: । भवन्ती: । जीवा: । जीवन्ती: । उप । व: । सदेम ॥१४.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 14; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(गावः)। हे धेनवः। (गोपतिना)। गोरक्षकेण। (सचध्वम्)। षच समवाये। समवेता भवत। संगच्छध्वम्। (पोषयिष्णुः)। णेश्छन्दसि। पा० ३।२।१३७। इति पोषयतेः-इष्णुच्। पोषकः। (बहुलाः)। बहु+ला दाने क, टाप्। यद्वा। हृषेरुलच्। उ० १।९६। इति बहि वृद्धौ-उलच्। न लोपः। यद्वा, वह प्रापणे-उलच्। टाप्। बहुपदार्थदात्रीः। वृद्धिशीलाः। (भवन्तीः)। भू सत्तायाम्-शतृ, ङीप्। वर्त्तमानाः। (जीवाः)। चिरजीविनो वयम्। (जीवन्तीः)। बहुकालजीवनोपेताः। (उप)। आदरेण। (वः)। युष्मान्। (सदेम)। सदेराशीर्लिङि। गच्छेम। प्राप्नुयाम। अन्यद् गतम् ॥
इस भाष्य को एडिट करें