अथर्ववेद - काण्ड 3/ सूक्त 18/ मन्त्र 1
इ॒मां ख॑ना॒म्योष॑धिं वी॒रुधां॒ बल॑वत्तमाम्। यया॑ स॒पत्नीं॒ बाध॑ते॒ यया॑ संवि॒न्दते॒ पति॑म् ॥
स्वर सहित पद पाठइ॒माम् । ख॒ना॒मि॒ । ओष॑धिम् । वी॒रुधा॑म् । बल॑वत्ऽतमाम् । यया॑ । स॒ऽपत्नी॑म् । बाध॑ते । यया॑ । स॒म्ऽवि॒न्दते॑ । पति॑म् ॥१८.१॥
स्वर रहित मन्त्र
इमां खनाम्योषधिं वीरुधां बलवत्तमाम्। यया सपत्नीं बाधते यया संविन्दते पतिम् ॥
स्वर रहित पद पाठइमाम् । खनामि । ओषधिम् । वीरुधाम् । बलवत्ऽतमाम् । यया । सऽपत्नीम् । बाधते । यया । सम्ऽविन्दते । पतिम् ॥१८.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 18; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(इमाम्) प्रत्यक्षाम्। (खनामि) खनु विदारे। खननेन अन्वेषणेन संपादयामि। (ओषधिम्) अ० १।२३।१। रोगनाशिकां ब्रह्मविद्याम्। (वीरुधाम्) अ० १।३२।१। विरोहणशीलानां लतारूपानां प्रजानां मध्ये। (बलवत्तमाम्) बलवत्-तमप्, टाप्। अतिशयेन बलवतीम्। (यया) ओषध्या। (सपत्नीम्) सर्वधातुभ्य इन्। उ० ४।११८। इति समान+पत्लृ अधोगतौ-इन्। नित्यं सपत्न्यादिषु। पा० ४।१।३५। इति ङीप् नकारान्तादेशश्च। समानपातनशीलम्। ब्रह्मविद्याविरोधिनीम्। अविद्याम्। (बाधते) विहन्ति। (संविन्दते) सम्यक् लभते। (पतिम्) पातेर्डतिः। उ० ४।५७। इति पा रक्षणे डति। यद्वा। सर्वधातुभ्य इन्। उ० ४।११८। इति पत ऐश्ये-इन्। सर्वरक्षकम्। ऐश्वर्यवन्तं परमेश्वरम् ॥
इस भाष्य को एडिट करें