अथर्ववेद - काण्ड 3/ सूक्त 18/ मन्त्र 5
अ॒हम॑स्मि॒ सह॑मा॒नाथो॒ त्वम॑सि सास॒हिः। उ॒भे सह॑स्वती भू॒त्वा स॒पत्नीं॑ मे सहावहै ॥
स्वर सहित पद पाठअ॒हम् । अ॒स्मि॒ । सह॑माना । अथो॒ इति॑ । त्वम् । अ॒सि॒ । स॒स॒हि: । उ॒भे इति॑ । सह॑स्वती॒ इति॑ । भू॒त्वा । स॒ऽपत्नी॑म् । मे॒ । स॒हा॒व॒है॒ ॥१८.५॥
स्वर रहित मन्त्र
अहमस्मि सहमानाथो त्वमसि सासहिः। उभे सहस्वती भूत्वा सपत्नीं मे सहावहै ॥
स्वर रहित पद पाठअहम् । अस्मि । सहमाना । अथो इति । त्वम् । असि । ससहि: । उभे इति । सहस्वती इति । भूत्वा । सऽपत्नीम् । मे । सहावहै ॥१८.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 18; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(सहमाना) षह अभिभवे-शानच्। अभिभवित्री प्रजा। (अथो) अपि च। (सासहिः) किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। वा० पा० ३।२।१७१। इति षह अभिभवे-कि, लिड्वद्भावः। छान्दसो दीर्घः। अभिभवित्री। (उभे) त्वं च अहं च, आवाम्। (सहस्वती) सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेः पूर्वसवर्णदीर्घः। अभिभवनवत्यौ। जयशीले। (सपत्नीम्) म० १। विरोधिनीम्, अविद्याम्। (सहावहै) षह अभिभवे-लोट्। आवाम् अभिभवाव ॥
इस भाष्य को एडिट करें