अथर्ववेद - काण्ड 3/ सूक्त 17/ मन्त्र 9
घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्भिः॑। सा नः॑ सीते॒ पय॑सा॒भ्याव॑वृ॒त्स्वोर्ज॑स्वती घृ॒तव॒त्पिन्व॑माना ॥
स्वर सहित पद पाठघृतेन॑ । सीता॑ । मधु॑ना । सम्ऽअ॑क्ता । विश्वै॑: । दे॒वै: । अनु॑ऽमता । म॒रुत्ऽभि॑: । सा । न॒: । सी॒ते॒ । पय॑सा । अ॒भि॒ऽआव॑वृत्स्व । ऊर्ज॑स्वती । घृ॒तऽव॑त् । पिन्व॑माना ॥१७.९॥
स्वर रहित मन्त्र
घृतेन सीता मधुना समक्ता विश्वैर्देवैरनुमता मरुद्भिः। सा नः सीते पयसाभ्याववृत्स्वोर्जस्वती घृतवत्पिन्वमाना ॥
स्वर रहित पद पाठघृतेन । सीता । मधुना । सम्ऽअक्ता । विश्वै: । देवै: । अनुऽमता । मरुत्ऽभि: । सा । न: । सीते । पयसा । अभिऽआववृत्स्व । ऊर्जस्वती । घृतऽवत् । पिन्वमाना ॥१७.९॥
अथर्ववेद - काण्ड » 3; सूक्त » 17; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(घृतेन) आज्येन। (सीता) म० ४। कृष्टा भूमिः। (मधुना) क्षौद्रेण। (समक्ता) अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-क्त। सम्यक् मिश्रिता। (विश्वैः) सर्वैः। (देवैः) दिवु व्यवहारे-अच्। व्यवहारकुशलैः। (अनुमता) अङ्गीकृता। (मरुद्भिः) अ० १।२०।१। देवैः। ऋत्विग्भिः, निघ० ३।१८। (सा) सा त्वम्। (नः) अस्मान् (पयसा) दुग्धेन। (अम्याववृत्स्व) बहुलं छन्दसि। पा० २।४।७६। इति वृतेः। शपः श्लुः। अभित आगत्य वर्तस्व। (ऊर्जस्वती) बलवती। (घृतवत्) यथा तथा घृतयुक्तेन अन्नेन। (पिन्वमाना) पिवि सेचने-शानच्। आत्मनेपदं छान्दसम्। सिञ्चन्ती। वर्धयन्ती ॥
इस भाष्य को एडिट करें