Loading...
अथर्ववेद > काण्ड 3 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 17/ मन्त्र 2
    सूक्त - विश्वामित्रः देवता - सीता छन्दः - त्रिष्टुप् सूक्तम् - कृषि

    यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह बीज॑म्। वि॒राजः॒ श्नुष्टिः॒ सभ॑रा असन्नो॒ नेदी॑य॒ इत्सृ॒ण्यः॑ प॒क्वमा य॑वन् ॥

    स्वर सहित पद पाठ

    यु॒नक्त॑ । सीरा॑ । वि । यु॒गा । त॒नो॒त॒ । कृ॒ते । योनौ॑ । व॒प॒त॒ । इ॒ह । बीज॑म् । वि॒ऽराज॑: । श्नुष्टि॑: । सऽभ॑रा: । अ॒स॒त् । न॒: । नेदी॑य: । इत् । सृ॒ण्य᳡: । प॒क्वम् । आ । य॒व॒न् ॥१७.२॥


    स्वर रहित मन्त्र

    युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम्। विराजः श्नुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमा यवन् ॥

    स्वर रहित पद पाठ

    युनक्त । सीरा । वि । युगा । तनोत । कृते । योनौ । वपत । इह । बीजम् । विऽराज: । श्नुष्टि: । सऽभरा: । असत् । न: । नेदीय: । इत् । सृण्य: । पक्वम् । आ । यवन् ॥१७.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 17; मन्त्र » 2

    टिप्पणीः - २−(युनक्त) योजयत। (सीरा) म० १। (वि तनोत) विस्तारयत। (कृते) सम्पादिते। कृष्टे। (योनौ) क्षेत्रे। (वपत) निक्षिपत। (वीजम्) उपसर्गे च संज्ञायाम्। पा० ३।२।९९। इति वि+जन उत्पादने-ड, उपसर्गस्य दीर्घः। यद्वा, वीज प्रजननकान्त्यसनखादनेषु-अच्। इति शब्दकल्पद्रुपे। उत्पत्तिमूलम्। अपत्यम्-निघ० २।२। (इह) अत्र। (विराजः) वि+राजृ दीप्तौ-क्विप्। हे विराजमानाः ! शोभायमानाः कृषीवलाः। (श्नुष्टिः) ष्णुसु अदने, आदाने च-क्तिन्। छान्दसं रूपम्। अन्नोत्पत्तिः। उपलब्धिः। (सभराः) सह+भृञ्-असुन्। भरसा भरणेन सहिता। (असत्) भवेत्। (नः) अस्मभ्यम्। (नेदीयः) अन्तिक-ईयसुन्। अन्तिकबाढयोर्नेदसाधौ। पा० ५।३।६३। इति नेदादेशः। समीपतरम्। (इत्) एव। (सृण्यः) सृवृषिभ्यां कित्। उ० ४।४९। इति सृ गतौ-नि, ङीप्। अङ्कुशाः। लवणसाधनशस्त्राणि। (पक्वम्) पच-क्त। पचो वः। पा० ८।२।५२। इति तस्य वः। प्राप्तपाकम् अन्नम्। (आ यवन्) यु मिश्रणामिश्रणयोः-लेट्। आयुवन्तु। प्रापयन्तु ॥

    इस भाष्य को एडिट करें
    Top