अथर्ववेद - काण्ड 3/ सूक्त 17/ मन्त्र 6
शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम्। शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ॥
स्वर सहित पद पाठशु॒नम् । वा॒हा: । शु॒नम् । नर॑: । शु॒नम् । कृ॒ष॒तु॒ । लाङ्ग॑लम् । शु॒नम् । व॒र॒त्रा: । ब॒ध्य॒न्ता॒म् । शु॒नम् । अष्ट्रा॑म् । उत् । इ॒ङ्ग॒य॒ ॥१७.६॥
स्वर रहित मन्त्र
शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम्। शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥
स्वर रहित पद पाठशुनम् । वाहा: । शुनम् । नर: । शुनम् । कृषतु । लाङ्गलम् । शुनम् । वरत्रा: । बध्यन्ताम् । शुनम् । अष्ट्राम् । उत् । इङ्गय ॥१७.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 17; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(शुनम्) सुखेन। (वाहाः) वृषभादयः। (नरः) अ० ३।१६।३। नयतीति ना। नेतारः कर्षकाः। (कृषतु) विलिखतु। (लाङ्गलम्) हलम्। (वरत्राः) वृञश्चित्। उ० ३।१०७। इति वृञ् संवरणे-अत्रन्। टाप्। बन्धन-रज्जवः। (बध्यन्ताम्) बद्धा भवन्तु। (अष्ट्राम्) अमिचिमिशसिभ्यः क्त्रः। उ० ४।१६४। इति अशूङ् व्याप्तौ-क्त, टाप्। प्रतोदम्। ताडनीम्। (उत् इङ्गय) उपरि गमय। प्रेरय ॥
इस भाष्य को एडिट करें