Loading...
अथर्ववेद > काण्ड 3 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 17/ मन्त्र 8
    सूक्त - विश्वामित्रः देवता - सीता छन्दः - त्रिष्टुप् सूक्तम् - कृषि

    सीते॒ वन्दा॑महे त्वा॒र्वाची॑ सुभगे भव। यथा॑ नः सु॒मना॒ असो॒ यथा॑ नः सुफ॒ला भुवः॑ ॥

    स्वर सहित पद पाठ

    सीते॑ । वन्दा॑महे । त्वा॒ । अर्वाची॑ । सु॒ऽभ॒गे॒ । भ॒व॒ । यथा॑ । न॒: । सु॒ऽमना॑: । अस॑: । यथा॑ । न॒: । सु॒ऽफ॒ला । भुव॑: ॥१७.८॥


    स्वर रहित मन्त्र

    सीते वन्दामहे त्वार्वाची सुभगे भव। यथा नः सुमना असो यथा नः सुफला भुवः ॥

    स्वर रहित पद पाठ

    सीते । वन्दामहे । त्वा । अर्वाची । सुऽभगे । भव । यथा । न: । सुऽमना: । अस: । यथा । न: । सुऽफला । भुव: ॥१७.८॥

    अथर्ववेद - काण्ड » 3; सूक्त » 17; मन्त्र » 8

    टिप्पणीः - ८−(सीते) म० ४। लाङ्गलपद्धतिरूपा कृषिक्रिया लक्ष्मीः। तत्सम्बुद्धौ। (वन्दामहे) वदि अभिवादनस्तुत्योः। अभिवादयामः। स्तुमः। (त्वा) त्वाम्। (अर्वाची) अवर+अञ्चु गतिपूजनयोः-क्विन्, ङीप्। अर्वादेशः। निकटस्था। अभिमुखी। (सुभगे) हे सौभाग्ययुक्ते। ऐश्वर्यवति। (नः) अस्मभ्यम्। (सुमनाः) प्रसन्नमनस्का। (असः) लेट्। त्वं स्याः। (सुफला) शोभनफलोपेता। (भुवः) लेट्। त्वं भवेः ॥

    इस भाष्य को एडिट करें
    Top