अथर्ववेद - काण्ड 3/ सूक्त 17/ मन्त्र 5
शु॒नं सु॑फा॒ला वि तु॑दन्तु॒ भूमिं॑ शु॒नं की॒नाशा॒ अनु॑ यन्तु वा॒हान्। शुना॑सीरा ह॒विषा॒ तोश॑माना सुपिप्प॒ला ओष॑धीः कर्तम॒स्मै ॥
स्वर सहित पद पाठशु॒नम् । सु॒ऽफा॒ला: । वि । तु॒द॒न्तु॒ । भूमि॑म् । शु॒नम् । की॒नाशा॑: । अनु॑ । य॒न्तु॒ । वा॒हान् । शुना॑सीरा । ह॒विषा॑ । तोश॑माना । सु॒ऽपि॒प्प॒ला: । ओष॑धी: । क॒र्त॒म् । अ॒स्मै ॥१७.५॥
स्वर रहित मन्त्र
शुनं सुफाला वि तुदन्तु भूमिं शुनं कीनाशा अनु यन्तु वाहान्। शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तमस्मै ॥
स्वर रहित पद पाठशुनम् । सुऽफाला: । वि । तुदन्तु । भूमिम् । शुनम् । कीनाशा: । अनु । यन्तु । वाहान् । शुनासीरा । हविषा । तोशमाना । सुऽपिप्पला: । ओषधी: । कर्तम् । अस्मै ॥१७.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 17; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(शुनम्) सुखेन। (सुफालाः) फल भेदने-घञ्। फल्यते विदार्यते भूमिरनेन। शोभनाः फला लाङ्गस्थलौहभेदाः। (वि तुदन्तु) तुद व्यथने। विद्गारयन्तु। विकृषयन्तु। (भूमिम्) पृथिवीम्। (कीनाशाः) क्लिशेरीच्चोपधायाः कन् लोपश्च लो नाम् च। उ० ५।५६। इति क्लिशू विबाधने, बधे वा-कन्, उपधाया ईत्वं ललोपो नामागमश्च। क्लेशसहनशीलाः। कर्षकाः। (अनु) अनुसृत्य। (यन्तु) गच्छन्तु। (वाहान्) वहनशीलान् बलीवर्दादीन्। (शुनासीरा) इगुपधज्ञा०। पा० ३।१।१३५। इति शुन गतौ-क। कॄशॄपॄकटिपटि०। उ० ४।३०। इति सृ गतौ-ईरन्, टि लोपः। शुनश्च सीरश्च। देवताद्वन्द्वे च। पा० ६।३।२६। इति पूर्वपददीर्घः। शुनासीरौ शुनो वायुः शु एत्यन्तरिक्षे सीर आदित्यः सरणात्। निरु० ९।४०। हे वाय्वादित्यौ। (हविषा) अ० १।४।३। उदकेन, निघ० १।१२। (तोशमाना) षस्य शः। तोषमाणौ। सन्तोषकौ। (सुपिप्पलाः) कलस्तृपश्च। उ० १।१०४। इति पॄ पालनपूरणयोः-कलप्रत्ययः। पृषोदरादित्वात् साधुः। पिप्पलम्, उदकम्-निघ० १।१२। पिप्पलं पालकं फलम्-इति सायणः-ऋग्वेदभाष्ये म० १।१६४।२२। शोभनफलोपेताः। (ओषधीः) अ० १।२३।१। व्रीहियवाद्याः। (कर्तम्) युवां कुरुतम् (अस्मै) उद्योगिने पुरुषाय ॥
इस भाष्य को एडिट करें