अथर्ववेद - काण्ड 3/ सूक्त 17/ मन्त्र 4
इन्द्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षाभि र॑क्षतु। सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म् ॥
स्वर सहित पद पाठइन्द्र॑: । सीता॑म् । नि । गृ॒ह्णा॒तु॒ । ताम् । पू॒षा । अ॒भि । र॒क्ष॒तु॒ । सा । न॒: । पय॑स्वती । दु॒हा॒म् । उत्त॑राम्ऽउत्तराम् । समा॑म् ॥१७.४॥
स्वर रहित मन्त्र
इन्द्रः सीतां नि गृह्णातु तां पूषाभि रक्षतु। सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥
स्वर रहित पद पाठइन्द्र: । सीताम् । नि । गृह्णातु । ताम् । पूषा । अभि । रक्षतु । सा । न: । पयस्वती । दुहाम् । उत्तराम्ऽउत्तराम् । समाम् ॥१७.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 17; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(इन्द्रः) ऋज्रेन्द्राग्रवज्र०। उ० २।२८। इति इरा+दॄ विदारणे रक्। इन्द्र इरां दृणातीति वा०-निरु० १०।८। इराया भूमेर्विदारकः कर्षकः। (सीताम्) दुतनिभ्यां दीर्घश्च। उ० ३।९०। इति षिज् बन्धे-क्त। क्षेत्रे हलेन कृता रेखा। कर्षितभूमिरित्यर्थः। (नि) नीचैः। (गृह्णातु) सम्पादयतु। (पूषा) पोषकः कृषीवलः। (अभि) सर्वतः। (रक्षतु) पालयतु। (पयस्वती) उदकवती सती। (नः) अस्मान्। (दुहाम्) द्विकर्मकः। दुग्धाम्। प्रपूरयतु। (उत्तराम्-उत्तराम्) अतिशयेनोत्कृष्टाम्। (समाम्) अ० ३।१०।१। समक्रियाम्। अनुकूलक्रियाम् ॥
इस भाष्य को एडिट करें