Loading...
अथर्ववेद > काण्ड 3 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 19/ मन्त्र 1
    सूक्त - वसिष्ठः देवता - विश्वे देवाः, चन्द्रमाः, इन्द्रः छन्दः - पथ्याबृहती सूक्तम् - अजरक्षत्र

    संशि॑तं म इ॒दं ब्रह्म॒ संशि॑तं वी॒र्यं बल॑म्। संशि॑तं क्ष॒त्रम॒जर॑मस्तु जि॒ष्णुर्येषा॑मस्मि पु॒रोहि॑तः ॥

    स्वर सहित पद पाठ

    सम्ऽशि॑तम् । मे॒ । इ॒दम् । ब्रह्म॑ । सम्ऽशि॑तम् । वी॒र्य᳡म् । बल॑म् । सम्ऽशि॑तम् । क्ष॒त्रम् । अ॒जर॑म् । अ॒स्तु॒ । जि॒ष्णु: । येषा॑म् । अस्मि॑ । पु॒र:ऽहि॑त:॥१९.१॥


    स्वर रहित मन्त्र

    संशितं म इदं ब्रह्म संशितं वीर्यं बलम्। संशितं क्षत्रमजरमस्तु जिष्णुर्येषामस्मि पुरोहितः ॥

    स्वर रहित पद पाठ

    सम्ऽशितम् । मे । इदम् । ब्रह्म । सम्ऽशितम् । वीर्यम् । बलम् । सम्ऽशितम् । क्षत्रम् । अजरम् । अस्तु । जिष्णु: । येषाम् । अस्मि । पुर:ऽहित:॥१९.१॥

    अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 1

    टिप्पणीः - १−(संशितम्) सम्+शो तनूकरणे-क्त। सम्यक् सम्पादितं साधितम्। (मे) ममार्थम्। (इदम्) प्रसिद्धम्। (ब्रह्म) प्रवृद्धं वेदज्ञानाम्। अन्नम्, निघ० २।८। धनम्, निघ० २।१०। (वीर्यम्) वीर-भावे यत्। वीरता। (बलम्) सैन्यम्। (क्षत्रम्)। अ० २।१५।४। क्षत्रियकुलम्। राज्यम्। (अजरम्) जरारहितम्। (जिष्णुः) ग्लाजिस्थश्च ग्स्नुः। पा० ३।२।१३९। इति जि जये-ग्स्नु। विजयी। (येषाम्) योद्धॄणाम्। (पुरोहितः) पुरस्+डुधाञ् धारणपोषणयोः-क्त। पूर्वाधरावराणामसि०। पा० ५।३।३९। इति पूर्व असि, पुर् आदेशः। दधातेर्हिः। पा० ७।४।४२। इति हि। पुरोहितः पुर एनं दधति होत्राय वृतः कृपायमाणोऽन्वध्यायत्। निरु० २।१२। पूर्वम् अग्रे कर्मसु धीयते, आरोप्यते यः। प्रधानः। अग्रसरः ॥

    इस भाष्य को एडिट करें
    Top