Loading...
अथर्ववेद > काण्ड 3 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 19/ मन्त्र 2
    सूक्त - वसिष्ठः देवता - विश्वेदेवाः, चन्द्रमाः, इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - अजरक्षत्र

    सम॒हमे॒षां रा॒ष्ट्रं स्या॑मि॒ समोजो॑ वी॒र्यं बल॑म्। वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॒हम् ॥

    स्वर सहित पद पाठ

    सम् । अ॒हम् । ए॒षाम् । रा॒ष्ट्रम् । स्या॒मि॒ । सम् । ओज॑: । वी॒र्य᳡म् । बल॑म् । वृ॒श्चामि॑ । शत्रू॑णाम् । बा॒हून् । अ॒नेन॑ । ह॒विषा॑ । अ॒हम् ॥१९.२॥


    स्वर रहित मन्त्र

    समहमेषां राष्ट्रं स्यामि समोजो वीर्यं बलम्। वृश्चामि शत्रूणां बाहूननेन हविषाहम् ॥

    स्वर रहित पद पाठ

    सम् । अहम् । एषाम् । राष्ट्रम् । स्यामि । सम् । ओज: । वीर्यम् । बलम् । वृश्चामि । शत्रूणाम् । बाहून् । अनेन । हविषा । अहम् ॥१९.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 2

    टिप्पणीः - २−(सम्) सम्यक् प्रकारेण। (अहम्) पुरोहितः। राजा। (एषाम्) स्ववीराणाम्। (राष्ट्रम्) अ० ३।४।१। राज्यम्। (संस्यामि) षो अन्तकर्मणि। सम्+षो संयोजने। संयोजयामि। वर्धयामि। दृढीकरोमि। (ओजः) अ० १।१२।१। शारीरिकबलम्। (वीर्यम्) वीरताम्। (बलम्) सैन्यम्। (वृश्चामि) ओव्रश्चू छेदने। छिनद्मि। (बाहून्) भुजान्। पराक्रमान्। (हविषा) अ० १।४।३। अन्नेन आवाहनेन ॥

    इस भाष्य को एडिट करें
    Top