Loading...
अथर्ववेद > काण्ड 3 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 22/ मन्त्र 2
    सूक्त - वसिष्ठः देवता - बृहस्पतिः, विश्वेदेवाः, वर्चः छन्दः - विराट्त्रिष्टुप् सूक्तम् - वर्चः प्राप्ति सुक्त

    मि॒त्रश्च॒ वरु॑ण॒श्चेन्द्रो॑ रु॒द्रश्च॑ चेततुः। दे॒वासो॑ वि॒श्वधा॑यस॒स्ते मा॑ञ्जन्तु॒ वर्च॑सा ॥

    स्वर सहित पद पाठ

    मि॒त्र: । च॒ । वरु॑ण: । च॒ । इन्द्र॑: । रु॒द्र: । च॒ । चे॒त॒तु॒ । दे॒वास॑: । वि॒श्वऽधा॑यस: । ते । मा॒ । अ॒ञ्ज॒न्तु॒। वर्च॑सा ॥२२.२॥


    स्वर रहित मन्त्र

    मित्रश्च वरुणश्चेन्द्रो रुद्रश्च चेततुः। देवासो विश्वधायसस्ते माञ्जन्तु वर्चसा ॥

    स्वर रहित पद पाठ

    मित्र: । च । वरुण: । च । इन्द्र: । रुद्र: । च । चेततु । देवास: । विश्वऽधायस: । ते । मा । अञ्जन्तु। वर्चसा ॥२२.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 22; मन्त्र » 2

    टिप्पणीः - २−(मित्रः) सर्वप्रेरकः। सर्वहितकारी। (वरुणः) वरणीयः। श्रेष्ठः। (इन्द्रः) परमैश्वर्यवान्। (रुद्रः) अ० २।२७।६। रुत्-र। ज्ञानदाता। दुःखनाशकः परमेश्वरः। (चेततु) चिती ज्ञाने। चेतयतु। (देवासः) असुगागमः। पृथिव्यादिदेवाः। (विश्वधायसः) वहिहाधाञ्भ्यश्छन्दसि। उ० ४।२२१। इति विश्व+दधातेरसुन्। आतो युक् चिण्कृतोः। पा० ७।३।३३। इति युक्। सर्वस्य जगतो धातारः पोषयितारः। (ते) प्रसिद्धाः। (अञ्जन्तु) अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु। प्रकाशयन्तु। संयोजयन्तु (वर्चसा) तेजसा। बलेन ॥

    इस भाष्य को एडिट करें
    Top