अथर्ववेद - काण्ड 3/ सूक्त 22/ मन्त्र 4
सूक्त - वसिष्ठः
देवता - बृहस्पतिः, विश्वेदेवाः, वर्चः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - वर्चः प्राप्ति सुक्त
यत्ते॒ वर्चो॑ जातवेदो बृ॒हद्भव॒त्याहु॑तेः। याव॒त्सूर्य॑स्य॒ वर्च॑ आसु॒रस्य॑ च ह॒स्तिनः॑। ताव॑न्मे अ॒श्विना॒ वर्च॒ आ ध॑त्तां॒ पुष्क॑रस्रजा ॥
स्वर सहित पद पाठयत् । ते॒ । वर्च॑: । जा॒त॒ऽवे॒द॒: । बृ॒हत् । भव॑ति । आऽहु॑ते: । याव॑त् । सूर्य॑स्य । वर्च॑: । आ॒सुरस्य॑ । च॒ । ह॒स्तिन॑: । ताव॑त् । मे॒ । अ॒श्विना॑ । वर्च॑: । आ । ध॒त्ता॒म् । पुष्क॑रऽस्रजा ॥२२.४॥
स्वर रहित मन्त्र
यत्ते वर्चो जातवेदो बृहद्भवत्याहुतेः। यावत्सूर्यस्य वर्च आसुरस्य च हस्तिनः। तावन्मे अश्विना वर्च आ धत्तां पुष्करस्रजा ॥
स्वर रहित पद पाठयत् । ते । वर्च: । जातऽवेद: । बृहत् । भवति । आऽहुते: । यावत् । सूर्यस्य । वर्च: । आसुरस्य । च । हस्तिन: । तावत् । मे । अश्विना । वर्च: । आ । धत्ताम् । पुष्करऽस्रजा ॥२२.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 22; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(यत्) यस्मात् कारणात्। (ते) तुभ्यम्। (वर्चः) तेजः। बलम्। (जातवेदः) अ० १।७।२। हे जातस्य उत्पन्नस्य संसारस्य ज्ञातः परमेश्वर। (बृहत्) महत्। (आहुतेः) दानात्। आत्मसमर्पणात्। (यावत्) अ० ३।१५।३। यत्परिमाणम्। (सूर्यस्य) आदित्यस्य। (आसुरस्य) असुर इति व्याख्यातम् अ० १।१०।१। असुः प्राणः-रो मत्वर्थीयः। असुरः प्राणी, ततो अण् प्रत्ययः। प्राणिभ्यो हितस्य। यद्वा, असुरो मेघः-निघ० १।१०। तेभ्यो हितस्य। (हस्तिनः) गजस्य। (तावत्) तत्परिमाणम्। (मे) मह्यम्। (अश्विना) अ० २।२९।६। मातापितरौ। सूर्याचन्द्रमसौ। (आ धत्ताम्) समन्तात् स्थापयताम्। प्रयच्छताम् (पुष्करस्रजौ) पुषः कित्। उ० ४।४। इति पुष पोषणे-करन्। पुष्णातीति पुष्करम्। ऋत्विग्दधृक्स्रग्० पा० ३।२।५९। इति सृज त्यागे=दाने-क्विन्। पोषणदातारौ ॥
इस भाष्य को एडिट करें