Loading...
अथर्ववेद > काण्ड 3 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 22/ मन्त्र 6
    सूक्त - वसिष्ठः देवता - बृहस्पतिः, विश्वेदेवाः, वर्चः छन्दः - अनुष्टुप् सूक्तम् - वर्चः प्राप्ति सुक्त

    ह॒स्ती मृ॒गाणां॑ सु॒षदा॑मति॒ष्ठावा॑न्ब॒भूव॒ हि। तस्य॒ भगे॑न॒ वर्च॑सा॒भि षि॑ञ्चामि॒ माम॒हम् ॥

    स्वर सहित पद पाठ

    ह॒स्ती । मृ॒गाणा॑म् । सु॒ऽसदा॑म् । अ॒ति॒स्थाऽवा॑न् । ब॒भूव॑ । हि । तस्य॑ । भगे॑न । वर्च॑सा । अ॒भि । सि॒ञ्चा॒मि॒ । माम् । अ॒हम् ॥२२.६॥


    स्वर रहित मन्त्र

    हस्ती मृगाणां सुषदामतिष्ठावान्बभूव हि। तस्य भगेन वर्चसाभि षिञ्चामि मामहम् ॥

    स्वर रहित पद पाठ

    हस्ती । मृगाणाम् । सुऽसदाम् । अतिस्थाऽवान् । बभूव । हि । तस्य । भगेन । वर्चसा । अभि । सिञ्चामि । माम् । अहम् ॥२२.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 22; मन्त्र » 6

    टिप्पणीः - ६−(हस्ती) गजः। (मृगाणम्) पशूनां मध्ये। (सुषदाम्) अ० ३।१४।१। सुखेन सदनयोग्यानाम्। (अतिष्ठावान्) आतश्चोपसर्गे। पा० ३।१।१०६। इति अति+ष्ठा-अङ्, टाप्, मतुप्। प्रतिष्ठावान्। (हि) यस्मात् कारणात्। (तस्य) गजस्य। (भगेन) भजनीयेन। सेवनीयेन। (वर्चसा) तेजसा। (अभि) सर्वतः। (सिञ्चामि) शोधयामि। (माम्) आत्मानम्। (अहम्) उपासकः ॥

    इस भाष्य को एडिट करें
    Top