अथर्ववेद - काण्ड 3/ सूक्त 25/ मन्त्र 2
सूक्त - भृगुः
देवता - मित्रावरुणौ, कामबाणः
छन्दः - अनुष्टुप्
सूक्तम् - कामबाण सूक्त
आ॒धीप॑र्णां॒ काम॑शल्या॒मिषुं॑ संक॒ल्पकु॑ल्मलाम्। तां सुसं॑नतां कृ॒त्वा कामो॑ विध्यतु त्वा हृ॒दि ॥
स्वर सहित पद पाठआ॒धीऽप॑र्णाम् । काम॑ऽशल्याम् । इषु॑म् । सं॒क॒ल्पऽकु॑ल्मलाम् । ताम् । सुऽसं॑नताम् । कृ॒त्वा । काम॑: । वि॒ध्य॒तु॒ । त्वा॒ । हृ॒दि ॥२५.२॥
स्वर रहित मन्त्र
आधीपर्णां कामशल्यामिषुं संकल्पकुल्मलाम्। तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि ॥
स्वर रहित पद पाठआधीऽपर्णाम् । कामऽशल्याम् । इषुम् । संकल्पऽकुल्मलाम् । ताम् । सुऽसंनताम् । कृत्वा । काम: । विध्यतु । त्वा । हृदि ॥२५.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 25; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(आधीपर्णाम्) आ+डुधाञ् धारणपोषणयोः-कि, ङीप्। धापॄवस्यज्यतिभ्यो नः। उ० ३।६। इति पॄ पालनपूरणयोः-न। आधी अधिष्ठानं प्रतिष्ठा पर्णं पत्रमिव यस्यास्तां तथाविधाम्। (कामशल्याम्) शल्यः। अ० २।३०।३। कामं वीर्यं तपोबलं शल्यो बाणाप्रभाग इव यस्यास्तां तथोक्तान् (इषुम्) तीरम्। (संकल्पकुल्मलाम्) सम्+कृपू सामर्थ्ये-घञ्, रस्य लः। कुल्मलम्। अ० २।३०।३। संकल्पो दृढविचारः कुल्मलं बाणदण्डछिद्रमिव यस्यास्तां तथोक्ताम्। (ताम्) प्रसिद्धाम्। (सुसंनताम्) सु+सम्+णम नतौ।–क्त। सुष्ठु सम्यङ् नतां लक्ष्यीकृताम्। (कृत्वा) विधाय (कामः) कमु-घञ्। सुमनोरथः, यथा धर्मार्थकाममोक्षः। (विध्यतु) म० १। ताडयतु (त्वा) त्वां विद्याम् (हृदि) हृदये ॥
इस भाष्य को एडिट करें