अथर्ववेद - काण्ड 3/ सूक्त 25/ मन्त्र 5
सूक्त - भृगु
देवता - मित्रावरुणौ, कामबाणः
छन्दः - अनुष्टुप्
सूक्तम् - कामबाण सूक्त
आजा॑मि॒ त्वाज॑न्या॒ परि॑ मा॒तुरथो॑ पि॒तुः। यथा॒ मम॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥
स्वर सहित पद पाठआ । अ॒जा॒मि॒ । त्वा॒ । आ॒ऽअज॑न्या । परि॑ । मा॒तु: । अथो॒ इति॑ । पि॒तु: । यथा॑ । मम॑ । क्रतौ॑ । अस॑: । मम॑ । चि॒त्तम् । उ॒प॒ऽआय॑सि ॥२५.५॥
स्वर रहित मन्त्र
आजामि त्वाजन्या परि मातुरथो पितुः। यथा मम क्रतावसो मम चित्तमुपायसि ॥
स्वर रहित पद पाठआ । अजामि । त्वा । आऽअजन्या । परि । मातु: । अथो इति । पितु: । यथा । मम । क्रतौ । अस: । मम । चित्तम् । उपऽआयसि ॥२५.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 25; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(आ) समन्तात् (अजामि) अज गतिक्षेपणयोः। गच्छामि। प्राप्नोमि (आजन्या) आ+अज गतौ-ल्युट्, ङीप्। समन्ताद् गत्या। पूर्णोपायेन (परि) सर्वतः (मातुः) जनन्याः सकाशात् (अथो) अपि च (पितुः) पालकात्। जनकात् (यथा) येन प्रकारेण। अन्यद् व्याख्यातम्-अ० १।३४।२ ॥
इस भाष्य को एडिट करें