Loading...
अथर्ववेद > काण्ड 3 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 25/ मन्त्र 6
    सूक्त - भृगुः देवता - मित्रावरुणौ, कामबाणः छन्दः - अनुष्टुप् सूक्तम् - कामबाण सूक्त

    व्य॑स्यै मित्रावरुणौ हृ॒दश्चि॒त्तान्य॑स्यतम्। अथै॑नामक्र॒तुं कृ॒त्वा ममै॒व कृ॑णुतं॒ वशे॑ ॥

    स्वर सहित पद पाठ

    वि । अ॒स्यै॒ । मि॒त्रा॒व॒रु॒णौ॒ । हृ॒द: । चि॒त्तानि॑ । अ॒स्य॒त॒म् । अथ॑ । ए॒ना॒म् । अ॒क्र॒तुम् । कृ॒त्वा । मम॑ । ए॒व । कृ॒णु॒त॒म् । वशे॑ ॥२५.६॥


    स्वर रहित मन्त्र

    व्यस्यै मित्रावरुणौ हृदश्चित्तान्यस्यतम्। अथैनामक्रतुं कृत्वा ममैव कृणुतं वशे ॥

    स्वर रहित पद पाठ

    वि । अस्यै । मित्रावरुणौ । हृद: । चित्तानि । अस्यतम् । अथ । एनाम् । अक्रतुम् । कृत्वा । मम । एव । कृणुतम् । वशे ॥२५.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 25; मन्त्र » 6

    टिप्पणीः - ६−अस्यै। अस्या विद्यायाः प्राप्तये (मित्रावरुणौ) अ० १।२०।२। हे प्राणापानौ (हृदः) मम हृदयस्य (चित्तानि) ज्ञानानि। विचारान् (वि+अस्यतम्) असु क्षेपणे। विस्तारयतम् (अथ) अनन्तरम् (एनाम्) निर्दिष्टाम् (अक्रतुम्) कृञः कतुः उ० १।७६। इति कृञ् हिंसायाम्-कतु। अहिंसाशीलाम्। सुखप्रदाम् (कृत्वा) विधाय (कृणुतम्) कुरुतम् (वशे) आयत्तत्वे। प्रभुत्वे ॥

    इस भाष्य को एडिट करें
    Top