अथर्ववेद - काण्ड 3/ सूक्त 26/ मन्त्र 1
सूक्त - अथर्वा
देवता - रुद्रः, प्राचीदिशा साग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - दिक्षु आत्मारक्षा सूक्त
ये॒स्यां स्थ प्राच्यां॑ दि॒शि हे॒तयो॒ नाम॑ दे॒वास्तेषां॑ वो अ॒ग्निरि॑षवः। ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
स्वर सहित पद पाठये । अ॒स्याम् । प्राच्या॑म् । दि॒शि । हे॒तय॑: । नाम॑ । दे॒वा: । तेषा॑म् । व॒: । अ॒ग्नि: । इष॑व: । ते । न॒: । मृ॒ड॒त॒ । ते । न॒: । अधि॑ । ब्रू॒त॒ । तेभ्य॑: । व॒: । नम॑: । तेभ्य॑: । व॒: । स्वाहा॑ ॥२६.१॥
स्वर रहित मन्त्र
येस्यां स्थ प्राच्यां दिशि हेतयो नाम देवास्तेषां वो अग्निरिषवः। ते नो मृडत ते नो ऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥
स्वर रहित पद पाठये । अस्याम् । प्राच्याम् । दिशि । हेतय: । नाम । देवा: । तेषाम् । व: । अग्नि: । इषव: । ते । न: । मृडत । ते । न: । अधि । ब्रूत । तेभ्य: । व: । नम: । तेभ्य: । व: । स्वाहा ॥२६.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 26; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(ये) ये यूयं शूराः (अस्याम्) निर्दिष्टायाम् (स्थ) भवथ (प्राच्याम्) ऋत्विग्दधृक्स्रग्०। पा० ३।२।५९। इति प्र+अञ्चु गतिपूजनयोः-क्विन्। अनिदितां हल उप०। पा० ६।४।२४। इति नलोपः। उगितश्च। पा० ४।१।६। अत्र वार्त्तिकम्। अञ्चतेश्चोपसंख्यानम्। इति ङीप्। अचः। पा० ६।४।१३८। इति अकारलोपे। चौ। पा० ६।३।१३८। इति पूर्वपदस्य दीर्घः। स्वस्थानात् पूर्वस्याम्। स्वाभिमुखीभूतायाम् (दिशि) दिशायाम् (हेतयः) अ० १।१३।३। वज्ररूपाः। हन्तारः (नाम) प्रसिद्धाः (देवाः) विजिगषीवः (तेषाम्) पूर्वदिक्स्थानाम् (वः) युष्माकम् (अग्निः) पावकः (इषवः) अ० १।१३।४। बाणाः। तीराणि (ते) ते यूयम् (नः) अस्मान् (मृडत) सुखयत (नः) अस्मदर्थम् (अधि) अधिकारेण। ऐश्वर्येण (ब्रूत) वदत। विज्ञापयत (तेभ्यः) तथाविधेभ्यः (वः) युष्मभ्यम् (नमः) सत्कारः। अन्नम्-निघ० २।७। (स्वाहा) अ० २।१६।१। वाङ्नाम-निघ० १।११। सुवाणी। प्रशंसा ॥
इस भाष्य को एडिट करें