Loading...
अथर्ववेद > काण्ड 3 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 26/ मन्त्र 4
    सूक्त - अथर्वा देवता - उदीचीदिक् सवाताः प्रविध्यन्तः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - दिक्षु आत्मारक्षा सूक्त

    ये॒स्यां स्थोदी॑च्यां दि॒शि प्र॒विध्य॑न्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ वात॒ इष॑वः। ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    ये । अ॒स्याम् । स्थ । उदी॑च्याम् । दि॒शि । प्र॒ऽविध्य॑न्त: । नाम॑ । दे॒वा: । तेषा॑म् । व॒: । वात॑: । इष॑व: । ते । न॒: । मृ॒ड॒त॒ । ते । न॒: । अधि॑ । ब्रू॒त॒ । तेभ्य॑: । व॒: । नम॑: । तेभ्य॑: । व॒: । स्वाहा॑ ॥२६.४॥


    स्वर रहित मन्त्र

    येस्यां स्थोदीच्यां दिशि प्रविध्यन्तो नाम देवास्तेषां वो वात इषवः। ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥

    स्वर रहित पद पाठ

    ये । अस्याम् । स्थ । उदीच्याम् । दिशि । प्रऽविध्यन्त: । नाम । देवा: । तेषाम् । व: । वात: । इषव: । ते । न: । मृडत । ते । न: । अधि । ब्रूत । तेभ्य: । व: । नम: । तेभ्य: । व: । स्वाहा ॥२६.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 26; मन्त्र » 4

    टिप्पणीः - ४−(उदीच्याम्) उत्पूर्वाद् अञ्चतेः पूर्ववत् क्विनादि-म० १। उद ईत्। पा० ६।४।१३९। इति धात्वकारस्य ईकारः। उत्तरस्याम्। वामभागवर्त्तमानानाम् (वातः) पवनः। वायुविद्या (प्रविध्यन्तः) व्यध वेधने-शतृ। प्रकर्षेण वेधनं कुर्वन्तः। अन्यद्गतम्-म० १ ॥

    इस भाष्य को एडिट करें
    Top