अथर्ववेद - काण्ड 3/ सूक्त 26/ मन्त्र 2
सूक्त - अथर्वा
देवता - दक्षिणदिक् सकामा अविष्यवः
छन्दः - जगती
सूक्तम् - दिक्षु आत्मारक्षा सूक्त
ये॒स्यां स्थ दक्षि॑णायां दि॒श्य॑वि॒ष्यवो॒ नाम॑ दे॒वास्तेषां॑ वः॒ काम॒ इष॑वः। ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥
स्वर सहित पद पाठये । अ॒स्याम् । स्थ । दक्षि॑णायाम् । दि॒शि । अ॒वि॒ष्यव॑: । नाम॑ । दे॒वा: । तेषा॑म् । व॒: । काम॑: । इष॑व:। ते । न॒: । मृ॒ड॒त॒ । ते । न॒: । अधि॑ । ब्रू॒त॒ । तेभ्य॑: । व॒: । नम॑: । तेभ्य॑: । व॒: । स्वाहा॑ ॥२६.२॥
स्वर रहित मन्त्र
येस्यां स्थ दक्षिणायां दिश्यविष्यवो नाम देवास्तेषां वः काम इषवः। ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥
स्वर रहित पद पाठये । अस्याम् । स्थ । दक्षिणायाम् । दिशि । अविष्यव: । नाम । देवा: । तेषाम् । व: । काम: । इषव:। ते । न: । मृडत । ते । न: । अधि । ब्रूत । तेभ्य: । व: । नम: । तेभ्य: । व: । स्वाहा ॥२६.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 26; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(दक्षिणायाम्) स्याडभावश्छान्दसः। दक्षिणस्याम्। दक्षिणहस्तस्थितायाम् (अविष्यवः) अर्चिशुचि.....इसिः। उ० २।१०८। इति अव रक्षणे-इसि। इति अविः, रक्षणम्। छन्दसि परेच्छायामपि। वा० पा० ३।१।८। इति क्यच्। क्याच्छन्दसि। पा० ३।२।१७०। इति उ प्रत्ययः। अवनेच्छयः। पररक्षणेच्छवः। (कामः) दृढमनोरथः। इष्टविषयोऽभिलाषः। अन्यद्गतम्-म० १ ॥
इस भाष्य को एडिट करें