Loading...
अथर्ववेद > काण्ड 3 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 28/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - यमिनी छन्दः - अनुष्टुप् सूक्तम् - पशुपोषण सूक्त

    ए॒षा प॒शून्त्सं क्षि॑णाति क्र॒व्याद्भू॒त्वा व्यद्व॑री। उ॒तैनां॑ ब्र॒ह्मणे॑ दद्या॒त्तथा॑ स्यो॒ना शि॒वा स्या॑त् ॥

    स्वर सहित पद पाठ

    ए॒षा । प॒शून् । सम् । क्षि॒णा॒ति॒ । क्र॒व्य॒ऽअत् । भू॒त्वा । वि॒ऽअद्व॑री । उ॒त । ए॒ना॒म् । ब्र॒ह्मणे॑ । द॒द्या॒त् । तथा॑ । स्यो॒ना । शि॒वा । स्या॒त् ॥२८.२॥


    स्वर रहित मन्त्र

    एषा पशून्त्सं क्षिणाति क्रव्याद्भूत्वा व्यद्वरी। उतैनां ब्रह्मणे दद्यात्तथा स्योना शिवा स्यात् ॥

    स्वर रहित पद पाठ

    एषा । पशून् । सम् । क्षिणाति । क्रव्यऽअत् । भूत्वा । विऽअद्वरी । उत । एनाम् । ब्रह्मणे । दद्यात् । तथा । स्योना । शिवा । स्यात् ॥२८.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 28; मन्त्र » 2

    टिप्पणीः - २−(एषा) अपर्तुर्बुद्धिः (पशून्) द्विपदश्चतुष्पदः प्राणिनः (संक्षिणाति) सर्वथा नाशयति (क्रव्याद्) अ० २।२५।५। मांसभक्षिका (व्यद्वरी) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति वि+अद भक्षणे-वनिप्। वनो र च। पा० ४।१।७। इति ङीब्रेफौ। विविधं भक्षणशीला (उत) एवंविधे। (एनाम्) अपर्तुं बुद्धिम् (ब्रह्मणे) ईश्वरस्य वेदस्य ब्राह्मणस्य वा शरणाय। (दद्यात्) समर्पयेत् (तथा) तेन प्रकारेण (स्योना) अ० १।३३।१। सुखकरी। (शिवा) कल्याणी। (स्यात्) भवेत् ॥

    इस भाष्य को एडिट करें
    Top