अथर्ववेद - काण्ड 3/ सूक्त 28/ मन्त्र 5
यत्रा॑ सु॒हार्दः॑ सु॒कृतो॒ मद॑न्ति वि॒हाय॒ रोगं॑ त॒न्व१॒॑ः स्वायाः॑। तं लो॒कं य॒मिन्य॑भि॒संब॑भूव॒ सा नो॒ मा हिं॑सी॒त्पुरु॑षान्प॒शूंश्च॑ ॥
स्वर सहित पद पाठयत्र॑ । सु॒ऽहार्द॑: । सु॒ऽकृत॑: । मद॑न्ति । वि॒ऽहाय॑ । रोग॑म् । त॒न्व᳡: । स्वाया॑: । तम् । लो॒कम् । य॒मिनी॑ । अ॒भि॒ऽसंब॑भूव । सा । न॒: । मा । हिं॒सी॒त् । पुरु॑षान् । प॒शून् । च॒ ॥२८.५॥
स्वर रहित मन्त्र
यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः। तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान्पशूंश्च ॥
स्वर रहित पद पाठयत्र । सुऽहार्द: । सुऽकृत: । मदन्ति । विऽहाय । रोगम् । तन्व: । स्वाया: । तम् । लोकम् । यमिनी । अभिऽसंबभूव । सा । न: । मा । हिंसीत् । पुरुषान् । पशून् । च ॥२८.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 28; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(यत्र) यस्मिन् लोके गृहे (सुहार्दः) हृदये भवं हार्दम्। प्राग्दीव्यतोऽण्। पा० ४।१।८३। इति हृदय-अण्। हृदयस्य हृल्लेखयदण्लासेषु। पा० ६।३।५०। इति हृदयस्य हृत्। अन्त्यलोपश्छान्दसः। यद्वा। हार्दम् आनुकूल्यं करोति हार्दयति। हार्दयतेः क्विपि णिलोपे रूपम्। शोभनहार्दः। सुहृदयाः। अनुकूलकारिणः। (सुकृतः। सुकर्मपापमन्त्रपुण्येषु कृञः। पा० ३।२।८९। डुकृञ् करणे-क्विप्। शोभनकर्माणः। (मदन्ति) मदी=हर्षे। हृष्यन्ति (विहाय) ओहाक् त्यागे-ल्यप्। त्यक्त्वा (रोगम्) व्याधिम् (तन्वः) शरीरस्य। (स्वायाः) स्वकीयस्य (लोकम्) लोक दर्शने घञ्। जनसमूहम् (यमिनी) म० १। नियमवती सुमतिः (अभिसंबभूव) भू सत्तायां प्राप्तौ च-लिट् आभिमुख्येन सम्यक् प्राप्तवती (मा हिंसीत्) मा हिनस्तु (नः) अस्माकम् (पुरुषान्) कलत्रपुत्रपौत्रभृत्यादीन्। (पशून्) गवाश्वादीन् ॥
इस भाष्य को एडिट करें