Loading...
अथर्ववेद > काण्ड 3 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 5
    सूक्त - अथर्वा देवता - चन्द्रमाः, सांमनस्यम् छन्दः - विराड्जगती सूक्तम् - सांमनस्य सूक्त

    ज्याय॑स्वन्तश्चि॒त्तिनो॒ मा वि यौ॑ष्ट संरा॒धय॑न्तः॒ सधु॑रा॒श्चर॑न्तः। अ॒न्यो अ॒न्यस्मै॑ व॒ल्गु वद॑न्त॒ एत॑ सध्री॒चीना॑न्वः॒ संम॑नसस्कृणोमि ॥

    स्वर सहित पद पाठ

    ज्याय॑स्वन्त: । चि॒त्तिन॑: । मा । वि । यौ॒ष्ट॒ । स॒म्ऽरा॒धय॑न्त: । स॑ऽधु॑रा: । चर॑न्त: । अ॒न्य: । अ॒न्यस्मै॑ । व॒ल्गु । वद॑न्त: । आ । इ॒त॒ । स॒ध्री॒चीना॑न् । व॒: । सम्ऽम॑नस: । कृ॒णो॒मि॒ ॥३०.५॥


    स्वर रहित मन्त्र

    ज्यायस्वन्तश्चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश्चरन्तः। अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान्वः संमनसस्कृणोमि ॥

    स्वर रहित पद पाठ

    ज्यायस्वन्त: । चित्तिन: । मा । वि । यौष्ट । सम्ऽराधयन्त: । सऽधुरा: । चरन्त: । अन्य: । अन्यस्मै । वल्गु । वदन्त: । आ । इत । सध्रीचीनान् । व: । सम्ऽमनस: । कृणोमि ॥३०.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 5

    टिप्पणीः - ५−(ज्यायस्वन्तः) ज्यायस्-वन्तः। ज्य च। वृद्धस्य च। पा० ५।३।६१, ६२। इति प्रशस्यस्य वृद्धस्य वा ज्य इत्यादेशः, ईयसुनि प्रत्यये। ज्यादादीयसः। पा० ६।४।१६०। इति ईकारस्य आकारः। ततो मतुप् प्रशंसायाम्। ज्यायांसो प्रशस्या वृद्धा वा प्रशंसनीया येषां ते तथोक्ताः। (चित्तिनः) उत्तमचित्तवन्तः। (मा वि यौष्ट) यु मिश्रणामिश्रणयोः, माङि लुङि रूपम्। इडभावश्छान्दसः। मा पृथग् भूत। वियुक्ता मा भवत। (संराधयन्तः) राध संसिद्धौ, णिच्-शतृ। सम्यक् संसिद्धिकाः। समानकार्याः। (सधुराः) ऋक्पूरब्धूःपथामानक्षे। पा० ५।४।७४। इति सह+धुर-अकारः। समासान्तः। सहकार्योद्वहनाः। (चरन्तः) गच्छन्तः। (वल्गु) अ० २।३६।१। मनोहरम्। प्रियवाक्यम्। (वदन्तः) भाषमाणाः (एत) आ+इत। आगच्छत (सध्रीचीनान्) ऋत्विग्दधृक्। पा० ३।२।५९। इति सह+अञ्चू गतिपूजनयोः-क्विन्। सहस्य सध्रिः। पा० ६।३।९५। इति सध्रि। विभाषाञ्चेरदिक् स्त्रियाम्। पा० ५।४।८। इति स्वार्थिकः खः। अकारलोपे दीर्घत्वम्। सहाञ्चतः कार्येषु सहप्रवृत्तान् (समनसः) समानमनस्कान्। (कृणोमि) करोमि ॥

    इस भाष्य को एडिट करें
    Top