अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 7
सूक्त - अथर्वा
देवता - चन्द्रमाः, सांमनस्यम्
छन्दः - त्रिष्टुप्
सूक्तम् - सांमनस्य सूक्त
स॑ध्री॒चीना॑न्वः॒ संम॑नसस्कृणो॒म्येक॑श्नुष्टीन्त्सं॒वन॑नेन॒ सर्वा॑न्। दे॒वा इ॑वा॒मृतं॒ रक्ष॑माणाः सा॒यंप्रा॑तः सौमन॒सो वो॑ अस्तु ॥
स्वर सहित पद पाठस॒ध्री॒चीना॑न् । व॒: । सम्ऽम॑नस: । कृ॒णो॒मि॒ । एक॑ऽश्नुष्टीन् । स॒म्ऽवन॑नेन । सर्वा॑न् । दे॒वा:ऽइ॑व । अ॒मृत॑म् । रक्ष॑माणा: । सा॒यम्ऽप्रा॑त: । सौ॒म॒न॒स: । व॒: । अ॒स्तु॒ ॥३०.७॥
स्वर रहित मन्त्र
सध्रीचीनान्वः संमनसस्कृणोम्येकश्नुष्टीन्त्संवननेन सर्वान्। देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥
स्वर रहित पद पाठसध्रीचीनान् । व: । सम्ऽमनस: । कृणोमि । एकऽश्नुष्टीन् । सम्ऽवननेन । सर्वान् । देवा:ऽइव । अमृतम् । रक्षमाणा: । सायम्ऽप्रात: । सौमनस: । व: । अस्तु ॥३०.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(एकश्नुष्टीन्) ष्णसु अदने, आदाने, च-क्तिन्। एकभुक्तीन्। समानभोजनान्। (संवननेन) वन संभक्तौ-ल्युट्। सम्यक् सेवनेन व्यापारेण। (देवाः) विजिगीषवः। पुरुषार्थिनः। (अमृतम्) अमरत्वम्। जीवनसाफल्यम्। (रक्षमाणाः) पालयन्तो भवत-इति शेषः (सायंप्रातः) उभयसंध्याकाले। (सौमनसः) तस्येदम्। पा० ४।३।१२०। इति सुमनस्-भावे अण्। सुमनसो भावः। सुहृद्भावः। चित्तप्रसादः। अन्यद्गतम् ॥
इस भाष्य को एडिट करें