अथर्ववेद - काण्ड 3/ सूक्त 5/ मन्त्र 2
सूक्त - अथर्वा
देवता - सोमः, पर्णमणिः
छन्दः - अनुष्टुप्
सूक्तम् - राजा ओर राजकृत सूक्त
मयि॑ क्ष॒त्रं प॑र्णमणे॒ मयि॑ धारयताद्र॒यिम्। अ॒हं रा॒ष्ट्रस्या॑भीव॒र्गे नि॒जो भू॑यासमुत्त॒मः ॥
स्वर सहित पद पाठमयि॑ । क्ष॒त्रम् । प॒र्ण॒ऽम॒णे॒ । मयि॑ । धा॒र॒य॒ता॒त् । र॒यिम् ।अ॒हम् । रा॒ष्ट्रस्य॑ । अ॒भि॒ऽव॒र्गे । नि॒ऽज: । भू॒या॒स॒म् । उ॒त्ऽत॒म: ॥५.२॥
स्वर रहित मन्त्र
मयि क्षत्रं पर्णमणे मयि धारयताद्रयिम्। अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः ॥
स्वर रहित पद पाठमयि । क्षत्रम् । पर्णऽमणे । मयि । धारयतात् । रयिम् ।अहम् । राष्ट्रस्य । अभिऽवर्गे । निऽज: । भूयासम् । उत्ऽतम: ॥५.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 5; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(मयि)। ईश्वरोपासके। (क्षत्रम्)। अ० २।१५।४। क्षतो हिंसनात् त्रायते। बलम्। (पर्णमणे)। म० १। हे पालकेषु प्रशंसनीय। (धारयतात्) धारयतेर्हेस्तातङ् आदेशः। धारय। स्थापय। (रयिम्)। अ० १।१५।२। रा दानादानयोः-इ, युक्। धनम्-निघ० २।१०। सम्पत्तिम्। (राष्ट्रस्य)। अ० १।२९।१। राज्यस्य। (अभीवर्गे)। अभि+वृजी वर्जने-घञ्। उपसर्गस्य घञ्यमनुष्ये बहुलम्। पा० ६।३।१२२। इति दीर्घः। अभिगतो वर्गो मनुष्यादि-समूहो यस्मिन्। राज्यमण्डले। (निजः)। नि+जनी प्रादुर्भावे-ड। निश्चयेन जायते। स्वकीयः। (भूयासम्)। भू-आशीर्लिङ्। अहं भवानि। (उत्तमः)। उत्कृष्टतमः ॥
इस भाष्य को एडिट करें