Loading...
अथर्ववेद > काण्ड 3 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 5/ मन्त्र 8
    सूक्त - अथर्वा देवता - सोमः, पर्णमणिः छन्दः - विराडुरोबृहती सूक्तम् - राजा ओर राजकृत सूक्त

    प॒र्णोऽसि॑ तनू॒पानः॒ सयो॑निर्वी॒रो वी॒रेण॒ मया॑। सं॑वत्स॒रस्य॒ तेज॑सा॒ तेन॑ बध्नामि त्वा मणे ॥

    स्वर सहित पद पाठ

    प॒र्ण: । अ॒सि॒ । त॒नू॒ऽपान॑: । स॒ऽयो॑नि: । वी॒र: । वी॒रेण॑ । मया॑ । स॒म्ऽव॒त्स॒रस्य॑ । तेज॑सा । तेन॑ । ब॒ध्ना॒मि॒ । त्वा॒ । म॒णे॒ ॥५.८॥


    स्वर रहित मन्त्र

    पर्णोऽसि तनूपानः सयोनिर्वीरो वीरेण मया। संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे ॥

    स्वर रहित पद पाठ

    पर्ण: । असि । तनूऽपान: । सऽयोनि: । वीर: । वीरेण । मया । सम्ऽवत्सरस्य । तेजसा । तेन । बध्नामि । त्वा । मणे ॥५.८॥

    अथर्ववेद - काण्ड » 3; सूक्त » 5; मन्त्र » 8

    टिप्पणीः - ८−(पर्णः)। पूरकः। पालकः। (असि)। भवसि। (तनूपानः)। शरीररक्षकः। (सयोनिः)। वहिश्रिश्रुयुद्रु०। उ० ४।५१। इति यु मिश्रणामिश्रणयोः-नि। युतं सम्पृक्तं सर्वपदार्थैः। योनिः, गृहनाम-निघ० ३।४। समानगृहयुक्तः। (वीरः)। स्फायितञ्चिवञ्चि०। उ० २।१३। इति अज गतिक्षेपणयोः-रक्। अजेर्वीभावः। यद्वा। वीर विक्रान्तौ-पचाद्यच्। यद्वा। वि+ईर गतौ-क। वीरो वीरयत्यमित्रान् वेतेर्वा स्याद् गतिकर्मणो वीरयतेर्वा-निरु० १।७। शूरः। (वीरेण)। पराक्रमिणा। (मया)। उपासकेन। (संवत्सरस्य)। अ० १।३५।४। संपूर्वाच्चित्। उ० ३।७२। इति सम्+वस निवासे-सरन्। स च चित्। सम्यग्वसन्ति लोका यत्र, निवसति लोकेषु यः। सम्यग्निवासस्थानस्य परमेश्वरस्य। (तेजसा)। प्रकाशेन। (तेन)। प्रसिद्धेन। (बध्नामि)। धारयामि। त्वदीयतेजोऽवाप्तये स्वहृदये स्थापयामीत्यर्थः ॥

    इस भाष्य को एडिट करें
    Top