Loading...
अथर्ववेद > काण्ड 3 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 6/ मन्त्र 1
    सूक्त - जगद्बीजं पुरुषः देवता - अश्वत्थः (वनस्पतिः) छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    पुमा॑न्पुं॒सः परि॑जातोऽश्व॒त्थः ख॑दि॒रादधि॑। स ह॑न्तु॒ शत्रू॑न्माम॒कान्यान॒हं द्वेष्मि॒ ये च॒ माम् ॥

    स्वर सहित पद पाठ

    पुमा॑न् । पुं॒स: । परि॑ऽजात: । अ॒श्व॒त्थ: । ख॒दि॒रात् । अधि॑ । स: । ह॒न्तु॒ । शत्रू॑न् । मा॒म॒कान् । यान् । अ॒हम् । द्वेष्मि॑ । ये । च॒ । माम् ॥६.१॥


    स्वर रहित मन्त्र

    पुमान्पुंसः परिजातोऽश्वत्थः खदिरादधि। स हन्तु शत्रून्मामकान्यानहं द्वेष्मि ये च माम् ॥

    स्वर रहित पद पाठ

    पुमान् । पुंस: । परिऽजात: । अश्वत्थ: । खदिरात् । अधि । स: । हन्तु । शत्रून् । मामकान् । यान् । अहम् । द्वेष्मि । ये । च । माम् ॥६.१॥

    अथर्ववेद - काण्ड » 3; सूक्त » 6; मन्त्र » 1

    टिप्पणीः - १−(पुमान्)। पातेर्डुमसुन्। उ० ४।१७८। इति पा रक्षणे-डुमसुन्, डित्वाट् टिलोपः। पातीति पुमान् [पुमस्]। रक्षकः पुरुषः। (पुंसः)। रक्षकात्। (परिजातः)। प्रादुर्भूतो भवति। (अश्वत्थः)। अशूप्रुषिलटि०। उ० १।१५१। इति अशू व्याप्तिसंहत्योः-क्वन्। अश्नुते कार्याणि स अश्वः, बलवान् पुरुषः। सुपि स्थः। पा० ३।२।४। इति अश्व+ष्ठा गतिनिवृत्तौ-क। पृषोदरादित्वाद् रूपम्। अश्वेषु बलवत्सु तिष्ठतीति सः। अतिवीरपुरुषः। अश्वत्थामा। अथवा। अश्वा वीरास्तिष्ठन्ति यत्र स अश्वत्थः पिप्पलवृक्षः। (खदिरात्)। अजिरशिशिरशिथिल०। उ० १।५३। इति खद स्थैर्यहिंसयोः-किरच्। स्थिरस्वभावात् परमेश्वरात्। वृक्षविशेपाद्वा। (अधि)। पञ्चम्यर्थानुवादी। (सः)। स अश्वत्थः। (हन्तु)। नाशयतु। (शत्रून्)। शातयितॄन्। अरीन्। रोगान्। (मामकान्)। अ० १।२९।५। मदीयान्। (यान्)। अपकारिणः। (द्वेष्मि)। द्विष वैरे। प्रतिकूलान् जानामि। (ये)। अपकारिणः। (माम्)। उपासकं द्विषन्तीति विपरिणामेन सम्बन्धः ॥

    इस भाष्य को एडिट करें
    Top