अथर्ववेद - काण्ड 3/ सूक्त 6/ मन्त्र 4
सूक्त - जगद्बीजं पुरुषः
देवता - अश्वत्थः (वनस्पतिः)
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
यः सह॑मान॒श्चर॑सि सासहा॒न इ॑व ऋष॒भः। तेना॑श्वत्थ॒ त्वया॑ व॒यं स॒पत्ना॑न्त्सहिषीमहि ॥
स्वर सहित पद पाठय: । सह॑मान: । चर॑सि । स॒स॒हा॒न:ऽइ॑व । ऋ॒ष॒भ: । तेन॑ । अ॒श्व॒त्थ॒ । त्वया॑ । व॒यम् । स॒ऽपत्ना॑न् । स॒हि॒षी॒म॒हि॒ ॥६.४॥
स्वर रहित मन्त्र
यः सहमानश्चरसि सासहान इव ऋषभः। तेनाश्वत्थ त्वया वयं सपत्नान्त्सहिषीमहि ॥
स्वर रहित पद पाठय: । सहमान: । चरसि । ससहान:ऽइव । ऋषभ: । तेन । अश्वत्थ । त्वया । वयम् । सऽपत्नान् । सहिषीमहि ॥६.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 6; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(यः)। यस्त्वम्। (सहमानः)। सह अभिभवे-शानच्। शत्रून् अभिभवन्। (चरसि)। गच्छसि। वर्तसे। (ससहानः)। सहेर्यङ्लुगन्तात् लटः शानच्। संहितायां दीर्घः। अत्यर्थमभिभवन्। (इव)। यथा। (ऋषभः)। ऋषिवृषिभ्यां कित्। उ० ३।१२३। इति ऋष गतौ। दर्शने च-अभक्। ऋषिर्दर्शनात्-निरु० २।११। श्रेष्ठपुरुषो बलीवर्दो वा। औषधविशेषो वा। (तेन)। उक्तलक्षणेन। (त्वया)। अश्वत्थेन। (वयम्)। (सपत्नान्)। शत्रून्। (सहिषीमहि)। सहेराशीर्लिङि रूपम्। सहामहै। अभिभूयास्म ॥
इस भाष्य को एडिट करें