Loading...
अथर्ववेद > काण्ड 3 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 6/ मन्त्र 7
    सूक्त - जगद्बीजं पुरुषः देवता - अश्वत्थः (वनस्पतिः) छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    तेऽध॒राञ्चः॒ प्र प्ल॑वन्तां छि॒न्ना नौरि॑व॒ बन्ध॑नात्। न वै॑बा॒धप्र॑णुत्तानां॒ पुन॑रस्ति नि॒वर्त॑नम् ॥

    स्वर सहित पद पाठ

    ते । अ॒ध॒राञ्च॑: । प्र । प्ल॒व॒न्ता॒म् । छि॒न्ना । नौ:ऽइ॑व । बन्ध॑नात् । न । वै॒बा॒धऽप्र॑नुत्तानाम् । पुन॑: । अ॒स्ति॒ । नि॒ऽवर्त॑नम् ॥६.७॥


    स्वर रहित मन्त्र

    तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्। न वैबाधप्रणुत्तानां पुनरस्ति निवर्तनम् ॥

    स्वर रहित पद पाठ

    ते । अधराञ्च: । प्र । प्लवन्ताम् । छिन्ना । नौ:ऽइव । बन्धनात् । न । वैबाधऽप्रनुत्तानाम् । पुन: । अस्ति । निऽवर्तनम् ॥६.७॥

    अथर्ववेद - काण्ड » 3; सूक्त » 6; मन्त्र » 7

    टिप्पणीः - ७−(ते)। शत्रवः। (अधराञ्चः)। अधर+अञ्चतेः। क्विन्। अधोगतिं प्राप्ताः। (प्रप्लवन्ताम्)। प्लुङ्गतौ। प्रवाहेण सह गच्छन्तु। न कदाचित् पारं प्राप्नुवन्तु। (छिन्ना)। भिन्ना। वियुक्ता। (नौः)। ग्लानुदिभ्यां डौः। उ० २।६४। इति णुद प्रेरणे-डौ। जलतरणसाधनम्। तरणिः। बन्धनात्। बन्ध-ल्युट्। रज्ज्वाः सकाशात्। (न)। निषेधे। (वैबाधप्रणुत्तानाम्)। वैबाधो यथा मन्त्रे २। प्र+णुद प्रेरणे-क्त, तस्य नः। वैबाधेषु विविधबाधकेषु प्रणुत्तानां प्रेरितानां क्षिप्तानाम्। (पुनः)। पश्चात्। (अस्ति)। भवति। (निवर्त्तनम्)। नि+वृत-ल्युट् निवृत्य आगमनम् ॥

    इस भाष्य को एडिट करें
    Top