अथर्ववेद - काण्ड 3/ सूक्त 6/ मन्त्र 8
सूक्त - जगद्बीजं पुरुषः
देवता - अश्वत्थः (वनस्पतिः)
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
प्रैणा॑न्नुदे॒ मन॑सा॒ प्र चि॒त्तेनो॒त ब्रह्म॑णा। प्रैणा॑न्वृ॒क्षस्य॒ शाख॑याश्व॒त्थस्य॑ नुदामहे ॥
स्वर सहित पद पाठप्र । ए॒ना॒न् । नु॒दे॒ । मन॑सा । प्र । चि॒त्तेन॑ । उ॒त । ब्रह्म॑णा । प्र । ए॒ना॒न् । वृ॒क्षस्य॑ । शाख॑या । अ॒श्व॒त्थस्य॑ । नु॒दा॒म॒हे॒ ॥६.८॥
स्वर रहित मन्त्र
प्रैणान्नुदे मनसा प्र चित्तेनोत ब्रह्मणा। प्रैणान्वृक्षस्य शाखयाश्वत्थस्य नुदामहे ॥
स्वर रहित पद पाठप्र । एनान् । नुदे । मनसा । प्र । चित्तेन । उत । ब्रह्मणा । प्र । एनान् । वृक्षस्य । शाखया । अश्वत्थस्य । नुदामहे ॥६.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 6; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(एनान्)। पूर्वोक्तान् शत्रून्। (नुदे)। णुद प्रेरणे। स्वरितेत्त्वाद् आत्मनेपदम्। प्रेरयामि। निः सारयामि। (मनसा)। मननशक्त्या। (चित्तेन)। चिती ज्ञाने-क्तः। ज्ञानशक्त्या। (ब्रह्मणा)। वेदविज्ञानेन। (वृक्षस्य)। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति वृक्षावरणे-क। वरणीयस्य। विटपस्य वा। (शाखया)। शाख व्याप्तौ अच्, टाप्। व्याप्त्या। पूर्णतया। वृक्षावयवेन। (अश्वत्थस्य)। म० १। बलवत्सु स्थितिशीलस्य शूरस्य। पिप्पलस्य। (नुदामहे)। प्रेरयामः ॥
इस भाष्य को एडिट करें